Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 383
________________ Jain Education International ५० श्रीमत्सूराचार्यविरचितम् श्रीबर्द्धमानमुनिपुङ्गवपादपूजासम्पादनापरिणता वरसिन्दुवारैः । मृ [ ६६ - २ ] त्वा गताऽमरगतौ किल दुर्गताऽलं स्त्रीत्यादिपूजनफलं समयप्रसिद्धम् ||५५|| किञ्चाssगमो विधिनिषेध विधायकोsa पारत्रिके स्खलु विधौ सुधियां प्रमाणम् । द्रव्यस्तवेऽस्ति स च नास्ति च युक्तिबाधा संसाधिकाऽधिकमतेः क्रमते च युक्तिः ॥ ५६॥ सम्प्राप्य ये नरभवं जिनशासनं च संसारसागरविलङ्घनयानपात्रम् । द्रव्यस्तवं परिहरन्ति जडा जनास्ते चिन्तामणि समधिगम्य परित्यजन्ति ॥ ५७॥ देवादिकृत्यरहिणो गृहिणः प्रहीणाः शोध्याः सतामवमताः पशुभिः समानाः । जन्मा[६७--१]न्तरे गुरुनिरन्तरदुःखदूना दीना न किञ्चन कदापि शुभं लभन्ते ॥ ५८॥ एवं कृत्वा कारयित्वा यतीना माहाराचं यच्छतां नास्ति दोषः । पुण्यस्कन्धः केवलं गेहभाजां सञ्जायेत स्वर्गनिर्वाणहेतुः ॥ ५९ ॥ प्रोक्तस्तुल्यः क्वापि यः कर्मबन्धः सारम्भत्वात् सर्वदाऽस्त्येव तेषाम् । इत्थं चेदं प्रोक्तयुक्त्यावसेयं सिद्धान्तार्थः शुद्धबुद्धयाऽवबोध्यः ॥६०॥ इष्यते दोषलेशोऽपि प्रभूतगुणसिद्धये । यथा दष्टाङ्गुलीच्छेदच्छेकैर्जीवितहेतवे ॥ ६१ ॥ कृष्यादिकर्म बहुजङ्गमजन्तुघाति कुर्वन्ति [ ६७ - २] गृहपरिग्रहभोगसक्ताः । धर्मा रन्धनकृतां किल पापमेषा - मेवं वदन्नपि न लज्जित एव दृष्टः ॥ ६२॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392