Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 385
________________ श्रीमत्सूराचार्यविरचितम् बुभुक्षा च महान्याधिः स्वाध्यायध्यानबाधिनी । आर्तप्रवर्तनी भीमा शमनीयाऽशनादिना ॥७३॥ अथ न्यायागतं कल्प्यं देयमुक्तं न चापरम् । युक्तं तदुक्तं बोद्धव्यं मध्यस्थैः शुद्धबुद्धिभिः ॥७॥ अन्यायेनाऽऽगतं दत्तमन्यदीयं हि निष्फलम् । तेन स्वकीयं दातव्यं, स्वामिनेति निवेदितम् ॥७५॥ [६९-२]कल्प्यं योग्यं तु साधूनां धर्मकायोपकारकम् । वितीर्णमपि नायोग्यं गृह्णन्ति यतयो यतः ॥७६।। यदा न्यायागतं कल्प्यं देयमेवेति कथ्यते । लोमेनासो ....नमदानं वा निवार्यते ॥७७॥ तथा च कल्प्ये सत्येव कश्चिद् दानाय दुर्विधः । विधत्ते भिन्नमन्नादि सोऽमुना प्रतिषिध्यते ॥७॥ विधिरोत्सर्गिको वाऽयमुत्तमं दानमीदृशम् । अन्यत्र मध्यमादि स्यान्न तु दोषाय जायते ॥७९॥ सर्वत्र चास्ति न्यायोऽयमुत्कृष्टमुपदिश्यते । अन्यत्तु न प्रतिष्टमदुष्टं पुण्यपुष्टये ॥८॥ व्याख्येयमे[७०-१]वमेवेदमन्यथा न व्रताद्यपि । देयं ग्राह्यं च केनापि सम्पूर्णविधिना विना ॥८१।। अथ कालादिदोषेण न्यूनोऽपि विधिरिष्यते । प्रतादिदाने सक्ता ये दानेऽप्येष समिष्यताम् ॥८२॥ आरम्भवर्जकं वा दायकमुद्दिश्य दर्शितं कल्प्यम् । देयं कृत्वा ददतः प्रतिमापन्नस्य भङ्गभयात् ॥८३॥ योऽपि क्वचिदपि समये कृत्वा ददतो निवेदितो दोषः । सोऽप्येवंविधविषये विदुषा योज्यो न सर्वत्र ॥८४॥ [७०-२] यदि वाऽधिकृत्य साधु सामान्येनैव निर्निमित्तमिदम् । देयं कल्प्यं जल्पितमनल्पबुद्धया च बोद्धव्यम् ॥८५।। यस्मात् सति निर्वाहे बालग्लानादिहेतुविरहे च । गृह्णन्त्यकल्पनीयं न साधवो वारितं तेन ॥८६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392