Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 381
________________ श्रीमासूराचार्यविरचितं अष्टापदादौ भरतादिभूपै वेश्मानि बिम्बानि च कारितानि । दशार्णभद्रप्रमुखैर्नु मुख्यैः पूजा जिनानां विहिता हिताश्च ॥३७॥ साधर्मिकेभ्यो भरतेन दत्तं भोज्यादि भक्त्या विविध विधाय । मोक्षाय निःशेषमभूदमीषा मेतज्जिनोक्तं क्रियमाणमेव ॥३८॥ ग्रामं क्षेत्रं वाटि[६४-१]कां वापिकाढ्यां __ गेहं हट देवदेवाय भक्त्या । दत्त्वा केचित् पालयित्वा तथान्ये धन्या सिद्धाः साधुसिद्धान्तसिद्धाः ॥३९॥ आरम्भन्ते सर्वकार्याण्यनार्या भार्यादीनां सर्वथा सर्वदा ये। देवादीनां नैव दीनास्तु मन्ये धर्मे द्वेषो निश्चितः कश्चिदेषाम् ॥४०॥ आरम्भश्चेत् पातकार्थेऽपि कृत्यो धर्मायासौ संविधेयः सुधाभिः ।। चौराणां चेद्धन्त वोढव्यमास्ते बादं व्यूढं तद्वरं स्वामिनो हि ॥४१॥ पापारम्भविवर्जनं गुरुयशोराशेः शुभस्यार्जनं ___ गेहाथाग्रह निग्र[६४-२]हेण मनसो निःसङ्गता सङ्गतिः । कल्याणाभिनिवेशिता तनुमतां सन्मार्गसन्दर्शनं धर्मारम्भवतां भवन्ति भविनामित्यादयः सद्गुणाः ॥४२॥ स्थानोपयोगात् साफल्यं भवस्य विभवस्य च । परः परोपकारः स्याद् धर्मतीर्थप्रवर्तनात् ॥४३॥ संसारसागरे घारे देहभाजां निमज्जताम् । तीर्थ श्रीतीर्थनाथस्य यानपात्रमनुत्तमम् ॥४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392