Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 373
________________ श्रीमत्सूराचार्यविरचितम् प्राप्तेऽपि पात्रे सुलभं न वित्तं . वित्तेऽपि पुण्यैः पुनरेति चित्तम् । दाने त्रयं कोऽपि भवाब्धिसेतुं प्राप्नोति कल्याणकलापहेतुम् ॥८५।। दुरापमिदमुच्चकैस्त्रयमवाप्य पुण्योदयाद् विधत्त सफलं जना न हि विलम्बितुं सङ्गतम् । विलोक्य मुनिराकुलं विमलधीर्निधान परं विधानसहितो हि तं बत विलम्बते कोऽपि किम् ॥८॥ दायादा आददन्ते[५५-१] दहति हुतवहोऽम्बुप्लवाः प्लावयन्ते स्तेना मुष्णन्ति भूपोऽपहरति रटतां मोटयित्वा कृकाटिम् । मूढानां याति बाढं धनमिति निधन धोधना धीरधन्याः साधूनामर्थयित्वाऽस्खलितमगलितं पालितं भुञ्जतेऽग्रे ॥८७॥ नियोगेनायोगो भवति विभवैश्चेद् विभविनां _ विना किञ्चित् कार्य रचितपरितापः परवशः । ” वरं धर्मायासौ विमलयशसे तोषितपरः __ प्रमोदाय स्वस्य स्ववविदितः ५५-२] साधितहितः ।।८८॥ अनन्तगुणमक्षतं भवति रक्षितं साधुभिः सुपात्रविनियोजितं ननु परत्र धर्मार्थिनाम् । प्रयाति निधनं धनं सदनसञ्चितं निश्चितं तथापि न धनप्रिया ददति मोहराजो बली ॥८९॥ ददति सति कदाचिन्मूलनाशेऽपि लोभा दिह हि शतसहस्र लाभसम्भावनायाम् । ध्रुवबहुगुणलामे नो परत्रार्थनाथा जयति जनसमूहं मोहयन् मोहमल्लः ॥९॥ भोगारम्भपरिग्रहा[५६-१]ग्रहवतां शीलं तपो भावनाः दुःसाधा गृहमेधिनां धनवतां दान सुदान पुनः । यस्तत्रापि निरुधमो द्रमकधी रौद्र समुद्रोप मं संसारं स कुतस्तरिष्यति बतोपायादपायाकुलम् ॥९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392