________________
श्रीमत्सूराचार्यविरचितम् प्राप्तेऽपि पात्रे सुलभं न वित्तं .
वित्तेऽपि पुण्यैः पुनरेति चित्तम् । दाने त्रयं कोऽपि भवाब्धिसेतुं
प्राप्नोति कल्याणकलापहेतुम् ॥८५।। दुरापमिदमुच्चकैस्त्रयमवाप्य पुण्योदयाद्
विधत्त सफलं जना न हि विलम्बितुं सङ्गतम् । विलोक्य मुनिराकुलं विमलधीर्निधान परं
विधानसहितो हि तं बत विलम्बते कोऽपि किम् ॥८॥ दायादा आददन्ते[५५-१] दहति हुतवहोऽम्बुप्लवाः प्लावयन्ते
स्तेना मुष्णन्ति भूपोऽपहरति रटतां मोटयित्वा कृकाटिम् । मूढानां याति बाढं धनमिति निधन धोधना धीरधन्याः
साधूनामर्थयित्वाऽस्खलितमगलितं पालितं भुञ्जतेऽग्रे ॥८७॥ नियोगेनायोगो भवति विभवैश्चेद् विभविनां
_ विना किञ्चित् कार्य रचितपरितापः परवशः । ” वरं धर्मायासौ विमलयशसे तोषितपरः
__ प्रमोदाय स्वस्य स्ववविदितः ५५-२] साधितहितः ।।८८॥ अनन्तगुणमक्षतं भवति रक्षितं साधुभिः
सुपात्रविनियोजितं ननु परत्र धर्मार्थिनाम् । प्रयाति निधनं धनं सदनसञ्चितं निश्चितं
तथापि न धनप्रिया ददति मोहराजो बली ॥८९॥ ददति सति कदाचिन्मूलनाशेऽपि लोभा
दिह हि शतसहस्र लाभसम्भावनायाम् । ध्रुवबहुगुणलामे नो परत्रार्थनाथा
जयति जनसमूहं मोहयन् मोहमल्लः ॥९॥ भोगारम्भपरिग्रहा[५६-१]ग्रहवतां शीलं तपो भावनाः
दुःसाधा गृहमेधिनां धनवतां दान सुदान पुनः । यस्तत्रापि निरुधमो द्रमकधी रौद्र समुद्रोप मं
संसारं स कुतस्तरिष्यति बतोपायादपायाकुलम् ॥९१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org