________________
दानादिप्रकरणम् प्रकृतिचपलं पुंसां चित्तं प्रगच्छदितस्ततः
कथमपि यदा पुण्यैर्जातं विहायितसम्मुखम् । भवति न तदा कालक्षेपः क्षमो विदुषामहो
पुनरपि भवेत् तादृग् नो वा चलं सकलं यतः ॥९२॥ प्राप्ते त्रये ये गमयन्ति कालं
ते वेगगच्छत्तरिकाधिरूढाः । मूढा ग्रहीतुं प्रतिपातयन्ते
__रत्नाकरे रत्नमयत्न[५६-२]दृष्टम् ॥९३॥ भव्यं वासः श्लाघनीयो निवासः
शय्या वर्या प्राज्यभोज्यं शुभाज्यम् । पात्रं पानं भैषजादि प्रधानं
भक्त्या देयं साधुसङ्घाय देयम् ॥९४॥ यदात्मनोऽतिवल्लभं जगत्यतीव दुर्लभम् । तदेव भक्तिभाजनैः प्रदेयमादृतैर्जनैः ॥९५।। धर्मकार्येऽपि ये व्याजं कुर्वते वित्ततत्पराः । मात्मानं वञ्चयन्त्युच्चस्ते नरा मूर्खशेखराः ॥१६॥ भो जना भोजनं यावन्न न्यस्तं साधुभाजने । समग्रमप्रतस्तावद् भुज्यते स्वेच्छया कथम् ॥९७॥ निक्षिप्तमक्षते पात्रे विविक्ते गुप्तिशालिनि । कल्पते निर्विक[५७-१]ल्पं स्वं काले भोगाय भोगिनाम् ॥९८॥ तीर्थस्य मूलं मुनयो भवन्ति ।
___ मूलं मुनीनामशनाऽऽसनादि । यच्छन्निदं धारयतोह तीर्थ
तद्धारणं पुण्यपदं वरेण्यम् ॥९९॥ तीर्थे यद् भव्या भवजलनिधेरुत्तरीतुं तरण्डं
- सम्यक्त्वं केचिद् विरतिमपरे देशतः सर्वतोऽन्ये । अङ्गीकुर्वाणाः कुशलमतुलं कुर्वते कारयन्ते
तत् स्यानिःशेष शुभपरिणतेस्तीर्थनिर्वाहकस्य ।।१०॥
मादि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org