SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽवसरः जिनागमं येऽनधिगम्य सम्यग गम्भीर[५९-१]मात्मम्भरयो वराकाः । दानं निषेधन्ति वचो न करें कणेजपानां करणीयमेषाम् ॥१॥ नो जानन्ति जिनागमं जडधियो नो सौगताद्यागमं नो लोकस्थितिमुज्ज्वलामृजुमहो व्यामोहयन्तोऽन्वहम् । दातृणामथ गृह्णतामसुमतां कृत्वाऽन्तरायं तरां मिथ्यादेशनया नयन्ति नरकं लोकं ब्रजन्ति स्वयम् ॥२॥ महानुभावा भवमुत्तरीतुं प्राणैरपि प्राणिगणोपकारम् । कुर्वन्ति केचित् करुणाईचित्ता श्चन्द्रा इवाहादितजीवलोकाः ॥३॥ अन्ये शुचैव परितापितविश्वविश्वा वैश्वानरा इ[५९-२]व नरा निरये रयेण । गन्तुं द्वयापकृतयो कथयन्ति मिथ्या किं कुर्महे वयमहो विषमो हि मोहः ॥४॥ तथापि किञ्चित् कथयामि युक्तं मध्यस्थलोकस्य स्खलूपयुक्तम् । मोहव्यपोहाय विहाय कृत्यं __ स्वार्थात् परार्थो महतां महिष्ठः ॥५॥ यावद्वर्ष ननु जिनवृषा वर्षति स्वर्णवर्ष ___ हर्षोत्कर्ष प्रणयिशिखिनां कुर्वदुर्वीगतानाम् । नो सन्दिग्धं न च विरचितं केनचिन्मादृशेदं प्रोक्तं प्रोच्चैरविचलवचो विश्रुतैः श्रीश्रुतज्ञैः ॥६॥ निष्क्रान्तिकाले सकला जिनेन्द्रा यादृच्छिकं दा[६०-१]नमतुच्छवाञ्छाः । यच्छन्ति विच्छिन्नदरिद्रमा मेघा इवाम्भो भुवि निर्विशेषम् ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy