Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
Jain Education International
- श्रीमत्सूराचार्यविरचितं
आयान्या(?) यतते[२६ - २ ] यतो यतिजनाः कुर्वन्ति सदेशनां श्रुत्वा धर्मपरा भवन्ति भविनो भव्या भवाम्भोनिधिम् । अक्लेशेन तरन्ति दुस्तरतरं तस्मादिदं कुर्वता
कल्याणं सकलं जनस्य जनितं सत्त्वेन सत्त्वाप्तिना ||२७| मस्तकमाणिक्यं क्षोणीमण्डलमण्डनम् ।
कोsपि कारयते पुण्यः कुलकेतुर्निकेतनम् ||२८|| तेन कृत्यं कृतं सर्वं दुष्कृतं च निराकृतम् । कृतिना कारितं येन केतनं पुण्यकेतनम् ||२९|| रोचिष्णुरत्नचयनिर्मि [२७ - १] तनिर्मलाङ्ग
स्फाशं स्फुटस्फुरदुरुस्फुटिकां सुरूपाम् । श्रीराजपट्टघटितां प्रबलप्रवालां
कार्तस्वरप्रवरभास्वरकान्तकायाम् ॥३०॥ सद्रीतिका - रजत-दन्तमय महिष्ठां
श्रेष्ठां गरिष्ठशुभकाष्ठकृतप्रतिष्ठाम् । ये मृण्मयीमपि तनिष्ठितनुं स्वशक्त्या
निर्मापयन्ति विधिना प्रतिमां जिनस्य ॥३१॥ वियोगदौर्भाग्यदरिद्रताव्यथां
पराभवं दुस्सहदुःस्थताकथाम् । विदन्ति वार्तामपि तेन दुर्गते
भीष्टपुण्या इव पापसङ्गतेः ॥३२॥ सत्यङ्कारोर्पितः स्वर्गे मर्त्यशर्म वशीकृतम् । शासनं लेखितं मोक्षे पुंसा कारयता जिनम् ॥ ३३॥ कल्याणसम्पदखिलाऽपि वशीकृतोच्चै -
रुच्चाटितं स्वमनसो ननु वैमन[ २७-२] स्यम् । विद्वेषितोऽनभिमता हित सम्प्रयोगः
संस्तम्भितोऽतिशुभवल्लभविप्रयोगः ॥ ३४ ॥
तन्नास्ति यन्न विहितं स्वहितं प्रशस्तं
तन्नास्ति यन्न दुरितं त्वरितं निरस्तम् । मन संविदधता प्रतिमाप्रतिष्ठा -
मात्मा नरोत्तमपदे गमितप्रतिष्ठाम् ||३५||
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392