Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीमत्सूराचार्यविरचितं आप्तपरम्पपरया स्याद् ग्रन्थेनान्येन वचनसाम्येन । सन्दिग्पार्थे वचने क्वचन जिनोक्तत्वनिश्चयनम् ॥४३॥ लोकेऽपि श्लोकादौ विपश्चितः कर्तृनिश्चिति केचित् । दृश्यन्ते सादृश्यात्] कुर्वन्तो वचनपरिचित्या ॥४४॥ धर्मास्तिकायमुख्यं कथञ्चिदप्यस्तु वस्तु किं तेन । कृत्याकृत्यं चिन्त्यं सुचेतसा पुण्यपापादि ॥४५॥ तत्रास्ति कर्म चित्र विचित्रफलसमुपलम्भतोऽनुमितम् । [३५-१] जातं हेतोः सदृशान्न दृश्यते विसदृशं कार्यम् ॥४६॥ स्याज्जातरूपजातो न राजतो जातु जातुषो वापि । वलयादिरलङ्कारस्तच्चित्राज्जायते चित्रम् ॥४०॥ एकजनकादिजनिती स्त्रीपुंसौ यमलको प्रसाधयतः । भिदुरायुःसौभाग्यादिभागिनो भेदकं कर्म ॥४८॥ रजतस्थालिस्थापितनिर्मलजलजातजन्तुजातं च । विविधतनुजातिवर्ण वर्णयति नियामकं कर्म ॥४९॥ समेऽपि व्यापारे पुरुषयुगलस्यामलधियः ।
समाने कालादौ सकलगुणसाम्ये समजनि । यदेकस्यानर्थः प्रकटमितरस्यार्थनिचयो
विनिश्चयं कर्म स्फुटतरमितोऽस्तीत्यनुमितेः ॥५०॥ शूरः शुचिः सुवचनोऽनुपमानुरागः
___ प्राज्ञः कलासु कुशलः कलितेशचित्रः(तः) । ३५-२7 यत्सेवको न लभते नृपतेरुदारा
तत्कर्मनिर्मितमिति ध्रुवमामनन्ति ॥५१॥ यन्नृपतेः क्षपणादपि वल्गु फलमफल्गु वल्लभ लभते । अधमाधमोऽपि मनुजस्तेनानुमिमीमहे कर्म ॥५२॥ दारिद्रयं विदुषां विपन्नयवतां सम्पद्गुणद्वेषिणां
वैधव्यं च वधूजनस्य वयसि प्रोल्लासिपीनस्तने । यत् प्रेयोविरहः स्थितिः सह खलैरन्यस्त्विदं दारुणं
मुक्त्वा कर्म विचेतनं विकरुणं कश्चेतनश्चेष्टते ॥५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392