Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२८
Jain Education International
श्रीमत्सूराचार्यविरचितं
ज्ञानोपशमोपचयादज्ञानानुपशमापचयदृष्ट्या | अ[ ३७ - २] वधार्यते विरोघादज्ञानादेः क्षयोऽत्यन्तम् ॥६७॥ चिरकालालीनं कलधौतोपलमलमिव प्रयोगेण । शटिति विघटते जन्तोः कर्म ज्ञानादियोगेन ॥६८॥ पापस्यापि विलोकयन्ति लोकाः फलं दारुणं
चौराणां वधबन्धनं बहुविधं वित्तापहारादिकम । जिह्वा च्छेदन भेदनान्यपयशो लोके मृषाभाषिणां
नानाकारनिकारमङ्ग विगमानन्याङ्गनासङ्गिनाम् ॥ ६९ ॥ सुव्यक्तफलं पापं यस्य चिकीर्षाऽपि चित्तसन्तापम् । कुरुते करणमकरुणं नृणां प्राणद्रविणहर [३८-१ १] णम् ॥७०॥ अच्छी चूडामणि केवलिका ज्योतिरमलशास्त्रादेः । संवादिनो जिनोक्तादतीन्द्रियेऽप्यागमः सत्यः ॥ ७१ ॥ एवंविधसिद्धान्तात् सर्वज्ञः साधु साध्यते साधु विप्रतिपत्तौ झटिति प्रकटं कूटस्य दुर्दृशस्यापि ॥ ७२ ॥ लिङ्गागमविगमे यो यदृतं जल्पति स वेत्ति तदवश्यम् । कथां कथयस्तथ्यां नर इव लिङ्गागमापगमे ॥ ७३ ॥ नैवागमो ऽस्त्यमूलः सम्बद्धाग्रहणतो न लिङ्गमपि । तथ्यमतीन्द्रियमर्थ साक्षाद्विदितं जिनो वदति ॥७४ || धर्म विशुद्धमधिगच्छति [ ३८-२] साधुबोध यः श्रदधात्यविधुरो विधिना विधत्ते । सम्बोधयत्यबुधभव्यजनं भवान्धे
रुत्तारकः स करुणः स गुरुर्गुणाढ्यः ॥७५॥ यो बोद्धा श्रद्धालुः स्पृहयालु: शिवपदाय सुदयालुः । धर्मं गृणाति जनमनुग्रहयालुः सोऽपि गुरुरतन्द्रालुः ॥७६॥ देवागमगुरुतत्त्वं परीक्षितं पण्डितैरुपादेयम् । तापाद्यैरिव काश्चनमिह वञ्चनमश्चनमनर्थे ॥ ७७|| गुरुदेवयोः स्वरूपं निरूपितं प्रक्रमागतं किमपि । आगमतत्त्वं प्रकृतं समासतस्तत् समाम्नातम् ॥७८॥ आगमाधि [ ३९ - १ ] गमनीयमशेषं निर्दिशन्ति खलु धर्मविशेषम् । आगमव्यपगमे हि नियोगाज्जायते सकलधर्मविलोपः ॥ ७९ ॥
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392