SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २८ Jain Education International श्रीमत्सूराचार्यविरचितं ज्ञानोपशमोपचयादज्ञानानुपशमापचयदृष्ट्या | अ[ ३७ - २] वधार्यते विरोघादज्ञानादेः क्षयोऽत्यन्तम् ॥६७॥ चिरकालालीनं कलधौतोपलमलमिव प्रयोगेण । शटिति विघटते जन्तोः कर्म ज्ञानादियोगेन ॥६८॥ पापस्यापि विलोकयन्ति लोकाः फलं दारुणं चौराणां वधबन्धनं बहुविधं वित्तापहारादिकम । जिह्वा च्छेदन भेदनान्यपयशो लोके मृषाभाषिणां नानाकारनिकारमङ्ग विगमानन्याङ्गनासङ्गिनाम् ॥ ६९ ॥ सुव्यक्तफलं पापं यस्य चिकीर्षाऽपि चित्तसन्तापम् । कुरुते करणमकरुणं नृणां प्राणद्रविणहर [३८-१ १] णम् ॥७०॥ अच्छी चूडामणि केवलिका ज्योतिरमलशास्त्रादेः । संवादिनो जिनोक्तादतीन्द्रियेऽप्यागमः सत्यः ॥ ७१ ॥ एवंविधसिद्धान्तात् सर्वज्ञः साधु साध्यते साधु विप्रतिपत्तौ झटिति प्रकटं कूटस्य दुर्दृशस्यापि ॥ ७२ ॥ लिङ्गागमविगमे यो यदृतं जल्पति स वेत्ति तदवश्यम् । कथां कथयस्तथ्यां नर इव लिङ्गागमापगमे ॥ ७३ ॥ नैवागमो ऽस्त्यमूलः सम्बद्धाग्रहणतो न लिङ्गमपि । तथ्यमतीन्द्रियमर्थ साक्षाद्विदितं जिनो वदति ॥७४ || धर्म विशुद्धमधिगच्छति [ ३८-२] साधुबोध यः श्रदधात्यविधुरो विधिना विधत्ते । सम्बोधयत्यबुधभव्यजनं भवान्धे रुत्तारकः स करुणः स गुरुर्गुणाढ्यः ॥७५॥ यो बोद्धा श्रद्धालुः स्पृहयालु: शिवपदाय सुदयालुः । धर्मं गृणाति जनमनुग्रहयालुः सोऽपि गुरुरतन्द्रालुः ॥७६॥ देवागमगुरुतत्त्वं परीक्षितं पण्डितैरुपादेयम् । तापाद्यैरिव काश्चनमिह वञ्चनमश्चनमनर्थे ॥ ७७|| गुरुदेवयोः स्वरूपं निरूपितं प्रक्रमागतं किमपि । आगमतत्त्वं प्रकृतं समासतस्तत् समाम्नातम् ॥७८॥ आगमाधि [ ३९ - १ ] गमनीयमशेषं निर्दिशन्ति खलु धर्मविशेषम् । आगमव्यपगमे हि नियोगाज्जायते सकलधर्मविलोपः ॥ ७९ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy