________________
दानादिप्रकरणम् दौर्गत्यं यदुदात्तचित्तसुधियां व्याधिव्यथाऽभोगिनां
दौर्भाग्यं रमणीयरूपरमणोलोकस्य लक्ष्मीवताम् । तारुण्ये मरणं जितस्मरवपुः श्रीणां जरा श्रीमतां
नैवेदं समपत्स्यतापहृदयं कर्मा भविष्यन्न चेत् ॥५४॥ शील कुलमकलङ्[३६-१]के कलाकलापातिकौशलं शौर्यम् । खलजन इवोपकारं निखिल विफलयति खलु कर्म ॥५५।। नयविनयादिविभूषितमदूषितापारपौरुषं पुरुषम् । कलुषमकलितमकाले समूलकाषं कषति कर्म ॥५६॥ अनुगुणेऽनुगुणं विगुणेऽन्यथा
. परिजनस्वजनेष्टजनादिकम् । भवति कर्मणि हन्त ! शरीरिणां
__ नरपताविव पत्तिजनादिकम् ॥५७॥ विगुणस्य पुरस्कारं कारयता गुणवतस्तिरस्कारम् । दृ(धृ)ष्टादृष्टेनायं निवेदितो निबिडनिजजडिमा ॥५८॥ [३६-२] किश्चाविवादविषयो विहाय लोकायतं विषयलोलम् । कर्मान्ये मन्यन्ते सामान्येनाऽऽस्तिकाः सर्वे ॥५९।। धर्माधौ सुखदुःखसाधने धीधनैरभिदधाते । . तावपि. विलोकितफलौ क्वचिदिह लोकेऽपि खलु कुशलैः ॥६०॥ संयमभाजो जनजनितपूजना भाजनं जना यशसाम् । दृश्यन्ते द्वन्द्वद्वयवियोगिनो योगिनः सुखिनः ॥६१॥ आरम्भे संरम्भात् परिग्रहे चाऽऽग्रहा[८] द्विधा द्वन्द्वः। तनुचित्तसङ्गतो वा न सङ्गतस्त्यक्तसङ्गानाम् ॥६२॥ रागादिरोगपूगापगमात् पर[३७-१]मसुखसङ्गमः सुगमः ।। आगमर्गादतोऽनुभवानुमानसिद्धो विशुद्धबुद्धीनाम् ॥१३॥ शमोपशमसमुत्थं समनुभवन्त्येव लेशतः शमिनः । शिवशर्म चानागतमुपागतं योगरागेण ॥६४॥ अनुमीयतेऽत एव हि रागाभावः सदुपशमातिशये । सद्भावनया दाह्याभाव इव हुताशनातिशये ॥६५॥ यो यस्येह विरोधी दृष्टस्तस्योदये तदितरस्य । भवति विनाशोऽवश्यं दाह्यस्येवानलाभ्युदये ॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org