SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितं आप्तपरम्पपरया स्याद् ग्रन्थेनान्येन वचनसाम्येन । सन्दिग्पार्थे वचने क्वचन जिनोक्तत्वनिश्चयनम् ॥४३॥ लोकेऽपि श्लोकादौ विपश्चितः कर्तृनिश्चिति केचित् । दृश्यन्ते सादृश्यात्] कुर्वन्तो वचनपरिचित्या ॥४४॥ धर्मास्तिकायमुख्यं कथञ्चिदप्यस्तु वस्तु किं तेन । कृत्याकृत्यं चिन्त्यं सुचेतसा पुण्यपापादि ॥४५॥ तत्रास्ति कर्म चित्र विचित्रफलसमुपलम्भतोऽनुमितम् । [३५-१] जातं हेतोः सदृशान्न दृश्यते विसदृशं कार्यम् ॥४६॥ स्याज्जातरूपजातो न राजतो जातु जातुषो वापि । वलयादिरलङ्कारस्तच्चित्राज्जायते चित्रम् ॥४०॥ एकजनकादिजनिती स्त्रीपुंसौ यमलको प्रसाधयतः । भिदुरायुःसौभाग्यादिभागिनो भेदकं कर्म ॥४८॥ रजतस्थालिस्थापितनिर्मलजलजातजन्तुजातं च । विविधतनुजातिवर्ण वर्णयति नियामकं कर्म ॥४९॥ समेऽपि व्यापारे पुरुषयुगलस्यामलधियः । समाने कालादौ सकलगुणसाम्ये समजनि । यदेकस्यानर्थः प्रकटमितरस्यार्थनिचयो विनिश्चयं कर्म स्फुटतरमितोऽस्तीत्यनुमितेः ॥५०॥ शूरः शुचिः सुवचनोऽनुपमानुरागः ___ प्राज्ञः कलासु कुशलः कलितेशचित्रः(तः) । ३५-२7 यत्सेवको न लभते नृपतेरुदारा तत्कर्मनिर्मितमिति ध्रुवमामनन्ति ॥५१॥ यन्नृपतेः क्षपणादपि वल्गु फलमफल्गु वल्लभ लभते । अधमाधमोऽपि मनुजस्तेनानुमिमीमहे कर्म ॥५२॥ दारिद्रयं विदुषां विपन्नयवतां सम्पद्गुणद्वेषिणां वैधव्यं च वधूजनस्य वयसि प्रोल्लासिपीनस्तने । यत् प्रेयोविरहः स्थितिः सह खलैरन्यस्त्विदं दारुणं मुक्त्वा कर्म विचेतनं विकरुणं कश्चेतनश्चेष्टते ॥५३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy