SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् क्षणेन दातरि क्षीणे भोक्ता दानफलस्य कः । क्षणोऽन्यश्चेत् कृतध्वंसः स्यादेवं चाकृतागमः ॥२९॥ विनाशे प्राणिनोः सद्यो हिंसाध्यानादिकारिणोः । बन्धमोक्षो कयोः स्यातामन्ययोश्चेदहेतुको ॥३०॥ अस्तीह प्रचुरं वाच्यमरुच्यमिति नोच्यते ।। सुखावबोधं प्रायेण प्राणिभ्यो रोचते वचः ॥३१॥ प्रत्यक्षादिप्रतिक्षिप्तो नित्यपक्षोऽप्यसङ्ग[३४-१]तः । अपरापरमर्यायं पार्यालोक्यखिलं यतः ॥३२॥ किं च धर्माद्यनुष्ठानं निश्चलात्म[नि] निष्फलम् । न धर्मादुपकारोऽस्य नापकारोऽस्त्यधर्मतः ॥३॥ ब्रह्महत्यादिदोषोऽपि नास्ति घाताद्यभावतः ।। बालादि न युवादि स्यान्नित्यस्याविचलत्वतः ॥३४॥ इत्येकान्तोपगमे समस्तमसमञ्जसं समासजति । तस्मादुपगन्तव्यः प्रमाणतो वस्तुपरिणामः ॥३५॥ प्रतिसमयं प्राचीन रूपमभवदुत्तरं च भवति, पुनः । वस्तु ध्रुवं कथश्चन काञ्चनवलितादि, परिणामि ॥३६॥ यस्याभावे सर्वे व्यवहाराः सम्भवन्ति ने जनस्य । जीयात् स जीवितसमोऽनेकान्तः. सर्वथा कान्तः ॥३७॥ जीवादिकमपि तत्त्वं न विरुद्धं सत्प्रमाणतः सिद्धम् । जिनसिद्धान्ताभिहितं धर्माद्यपि सर्वसत्त्वहितम् ॥३८॥ बाधाविकलं सकलं धर्मादिकमप्यतीन्द्रियं वस्तु । युक्त युक्तिविवक(चित्रे )रनुमीयत. एव किञ्चिद्रपि. ।।३९॥ यत्रापि नानु[३४-२]मानं क्रमते ननु मादृशस्य मन्दमतेः । बहुधा दृष्टापञ्चनजिनवचनात्तदपि निश्चेयम् ॥४०॥ लोकोऽपि सत्यवादं संवादाद्वादिनं विनिश्चित्य । सन्दिग्धेऽर्थे साक्षिणमङ्गीकुरुते प्रमाणतया ॥४१॥ न च भगवतोऽस्ति किञ्चन वञ्चनवचने निमित्तमित्युक्तम् । जिनवचनं पुनरेतन्निश्चितमाप्तोपदेशादेः ॥४२॥. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy