SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २४ Jain Education International श्रीमत्सूराचार्यविरचितम् स्वयं सङ्कल्प्य जल्पन्तो दोषदूषितबुद्धयः । प्रेक्षावतां कथं ग्राह्यवचनाः स्युर्द्विजा यतः ॥ १४ ॥ नरोत्तमं निराकृत्यं (त्य) नरपाशं पशुप्रियाः । धर्मोपदेशदातारं वदन्तो विप्रतारकाः ॥ १५ ॥ ततोऽतीतादिकानन्तवस्तुविस्तारवेदकः । उपदेष्टा जिनो युक्तः सर्वसत्त्वहितो यतः ॥ १६॥ प्रक्षीणदूषणव्रातः परार्थै[३२ - २]कमहाव्रतः । निष्कारणो जगदबन्धुर्बन्धुरः करुणाम्बुधिः ॥ १७॥ अचिन्त्यपुण्यप्राग्भारः प्राप्ताद्भुतमहोदयः । सदेवचक्रशक्रादिचक्रवर्तिनतक्रमः ॥ १८ ॥ समग्रसंशय ग्रामध्वान्तविध्वंसनक्षमः । लोकालोका मलालोक केवला पूर्व भास्करः ॥१९॥ कान्तमेकान्ततः सर्वसत्त्वसार्थ सुखावहम् । भाषते यज्जगन्नाथो वचनं तत् सदागमः ॥२०॥ पूर्वापराविरुद्धं दृष्टे संवाधबाधितमदृष्टे । क्वचिदप्यतीन्द्रियेऽपि हि संवादादुष्टमाहात्म्यम् ॥२१॥ कान्ती जिनैरनेकान्तो व्याहृतो व्या[ ३३ - १] हतो न हि । नीवादिकः पदार्थों वा धर्मों वाप्यवधादिकः ॥२२॥ उत्पद्यन्ते विपद्यन्ते पदार्थाः पर्ययात्मना । ध्रुवा द्रव्यात्मना सर्वे बहिरन्तश्च सर्वदा ||२३|| निःसन्देहविपर्यासं पर्यायैः पर्युपासितम् । बाल्यादिभिर्निजं देहं पश्यन्नेक महर्निशम् ॥२४॥ अन्तरात्मानमप्येकं शोकानन्दादिभिर्युतम् । समस्त वस्तुविस्तारं दोष (दिष्ट) मित्थं त्रयात्मकम् ॥२५॥ 'कथं युक्तमनेकान्तं ' दूषयत्येष सौगतः । सङ्गतासङ्गतज्ञानं यदि वाऽनात्मके कुतः ॥ २६ ॥ यथा प्रत्यक्षतः सिद्धं पर्यायमनुमन्यसे । द्रव्यं [ ३३-२] तथाऽनुमन्यस्व न मुनेर्मत्सरः क्षमः ||२७|| उत्पत्त्यनन्तरं नष्टे पदार्थे सर्वथा वृथा । तपोनियमदानाचा बन्धमोक्षौ च दुर्घटौ ॥२८॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy