SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ · दानादिप्रकरणम् मालोकेन विना लोको मार्ग नालोकते यथा । विनाऽऽगमेन धर्मार्थी धर्माध्वानं जनस्तथा ॥८॥ उच्छिद्यमानो यत्नेन धर्मानुच्छेदवाञ्छया। मागमः सति सामर्थ्य रक्षणीयो विचक्षणैः ॥८१॥ सन्धाः सपरिच्छदाः श्रुतधरा वस्त्रान्नपानादिना . लेख्यं शस्तसमस्तपुस्तकमहावृन्दं सदानन्दनम् । आत्मीयं हिमरश्मिमण्डलतले नामेव नामामलं दत्त्वा बन्धन- --[३९-२]दिविधिना संरक्षणीयं सदा ॥८२॥ द्रविणं साधारणमुरुकरणीयमथादरेण भरणीयम् । पुस्तकसङ्घादीनां निमित्तमापत्तिसम्पत्तौ ।।८३॥ कुर्वाणा निर्वहणं धर्मस्यानिधनमित्थमिह धनिनः । बध्नन्त्यनुबन्धि शुभं निबन्धनं बन्धनविनाशे ॥८॥ . तर्कव्याकरणाचा विद्या न भवन्ति धर्मशास्त्राणि । . निमदन्त्यविदितजिनमतजडमतयो जनाः केऽपि ॥८५॥ द्रव्यानुयोगः सकलानुयोगमध्ये प्रधानोऽभिदधे सुधीभिः । .... तर्कः प्रमाणं प्रणिगद्यतेऽसौ सद्धर्म[४०-१] शास्त्रं ननु दृष्टिवाद|८६॥ गणिते धर्मकथायां चरणे द्रव्ये भवेयुरनुयोगाः ।। व्याख्यानानि चतुर्णा तुर्यो वर्यः समाख्यातः ॥८७॥ मिथ्यादृष्टिश्रुतमपि सदृष्टिपरिग्रहात् समीचीनम् । किं काश्चन न कम्र रसानुविद्धं भवति ताम्रम् ॥८८॥ दीप इव शब्दविद्या परमात्मानं च दीपयत्युच्चैः। . मात्मप्रकाशनेऽपि हि जडानि पुनररन्यशास्त्राणि ॥८९। पङ्गुः पथि गच्छेदपि नाशब्दविशारदो नरः शास्त्रे । कथमप्यर्थविचारे पदमपि चतुरोऽपि सञ्चरति ॥९॥ व्याकरणालङ्कार छन्दःप्रमुख जिनोदितं मुख्यम् । सुगतादिमतमपि स्यात् स्यादत स्वमतमकलङ्कम् ॥९१॥ मुनिमतमपि विज्ञातं न पातकं ननु विरक्तचित्तानाम् । यत् सर्व ज्ञातव्यं कर्तव्यं न त्व[४०-२]कर्तव्यम् ।।९२॥ विज्ञाय किमपि हेयं किञ्चिदुपादेयमपरमपि दूष्यम् । तनिखिलं खलु लेख्यं ज्ञेयं सर्वज्ञमतविज्ञैः ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy