Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 362
________________ दानादिप्रकरणम् दौर्गत्यं यदुदात्तचित्तसुधियां व्याधिव्यथाऽभोगिनां दौर्भाग्यं रमणीयरूपरमणोलोकस्य लक्ष्मीवताम् । तारुण्ये मरणं जितस्मरवपुः श्रीणां जरा श्रीमतां नैवेदं समपत्स्यतापहृदयं कर्मा भविष्यन्न चेत् ॥५४॥ शील कुलमकलङ्[३६-१]के कलाकलापातिकौशलं शौर्यम् । खलजन इवोपकारं निखिल विफलयति खलु कर्म ॥५५।। नयविनयादिविभूषितमदूषितापारपौरुषं पुरुषम् । कलुषमकलितमकाले समूलकाषं कषति कर्म ॥५६॥ अनुगुणेऽनुगुणं विगुणेऽन्यथा . परिजनस्वजनेष्टजनादिकम् । भवति कर्मणि हन्त ! शरीरिणां __ नरपताविव पत्तिजनादिकम् ॥५७॥ विगुणस्य पुरस्कारं कारयता गुणवतस्तिरस्कारम् । दृ(धृ)ष्टादृष्टेनायं निवेदितो निबिडनिजजडिमा ॥५८॥ [३६-२] किश्चाविवादविषयो विहाय लोकायतं विषयलोलम् । कर्मान्ये मन्यन्ते सामान्येनाऽऽस्तिकाः सर्वे ॥५९।। धर्माधौ सुखदुःखसाधने धीधनैरभिदधाते । . तावपि. विलोकितफलौ क्वचिदिह लोकेऽपि खलु कुशलैः ॥६०॥ संयमभाजो जनजनितपूजना भाजनं जना यशसाम् । दृश्यन्ते द्वन्द्वद्वयवियोगिनो योगिनः सुखिनः ॥६१॥ आरम्भे संरम्भात् परिग्रहे चाऽऽग्रहा[८] द्विधा द्वन्द्वः। तनुचित्तसङ्गतो वा न सङ्गतस्त्यक्तसङ्गानाम् ॥६२॥ रागादिरोगपूगापगमात् पर[३७-१]मसुखसङ्गमः सुगमः ।। आगमर्गादतोऽनुभवानुमानसिद्धो विशुद्धबुद्धीनाम् ॥१३॥ शमोपशमसमुत्थं समनुभवन्त्येव लेशतः शमिनः । शिवशर्म चानागतमुपागतं योगरागेण ॥६४॥ अनुमीयतेऽत एव हि रागाभावः सदुपशमातिशये । सद्भावनया दाह्याभाव इव हुताशनातिशये ॥६५॥ यो यस्येह विरोधी दृष्टस्तस्योदये तदितरस्य । भवति विनाशोऽवश्यं दाह्यस्येवानलाभ्युदये ॥६६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392