Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 358
________________ Jain Education International पञ्चमोऽवसरः आगमो वीतरागस्य वचनं स्यादवञ्चनम् । सम्मोहरागरोषाः स्युर्दोषा वञ्चनहेतवः ॥ १॥ युक्तायुक्तं विवेक्तुं ना मूढो परिवृढो दृढम् । [ ३१ - १] ब्रूते हेयमुपादेयं द्रव्यं कूटं खरं यथा ॥२॥ रक्तो वक्ति निराचार सदाचार सुहृज्जनम् । द्विष्टो द्विषज्जनं शिष्टमाचष्टे दुष्टचेष्टितम् ||३|| इत्थं मोहादिदोषेण पुरुषो भाषते मृषा । * रागादिदोषमुक्तस्य किमुक्तौ कारणं मुधा ||४| बचो विचार्यमाणं तु विचारचतुरैर्नरैः । अकर्तृकं घटाकोटिसंटङ्कं नातिटीकते ॥५॥ 'ताल्वादिहेतुव्यापारपारवश्येन दृश्यते । अवश्यं वचनं सर्वं तत् कथं कथ्यतेऽन्यथा ॥६॥ यदुत्पाथः पदार्थो हि निश्वितो यो विपश्वि [ ३१ - २ ] ता । सततः सर्वदा ज्ञेयो धूमो धूमध्वजादिव ||७|| अथ वेदस्य कर्तार नरं नोपलभामहे । अपौरुषेयतामस्य परिभाषामहे ततः ॥ ८॥ देशान्तरादावुत्पन्नाः पदार्था ये पटादयः । अदृष्टकर्तृकास्तेऽपि नन्वेवं स्युरकर्तृकाः ॥ ९ ॥ अथैतेषां विधातारस्तदेशादिव्यवस्थितैः । प्रमोयन्ते ततः सन्तु पौरुषेयाः पटादयः ॥१०॥ ननु वेदस्य कर्तारं तदेशादिगता जनाः । न जातु जानते वेत्ति कथमेतद्भवादृशः ॥ ११॥ वेदकर्तृ परिज्ञातृशून्यं विश्व [ ३२ - १ ]मिदं सदा । इति यो वेत्ति सर्वज्ञः स एव भगवानिति ॥ १२॥ किञ्च वेदो निजं नार्थं समर्थो भाषितुं स्वयम् । यज्ञतत्फलसम्बन्धं सम्बुध्यन्ते बुधाः कथम् ॥ १३ ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392