Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२२:
श्रीमत्सूराचार्यविरचितं एवमादिमलङ्कारं कारयन्ति जिनस्य ये । निवारयन्ति [ २९-२] दुर्वारं नरास्ते दुःखवारणम् ॥४८॥ स्नात्रं जगत्त्रयपतेर्विधिना विधाय
___ सर्वाङ्गसङ्गतमसङ्गतसर्वतापाः । निर्धूतधौतकलधौतरुचोतिरोच्यं
श्रेयोऽनुभूय भवभावभिदो भवन्ति ॥४९॥ नश्यन्ति मलतापायाः कुर्वतां जिनमज्जनम् । आश्चर्य न विचार्यन्ते विभूनां हि विभूतयः ॥५०॥ . श्रीखण्डकुङ्कुमरसादिविलेपनानि
कर्पूरसन्मृगमदादिविमिश्रितानि । कृत्वा विभोः सुरभिसुन्दरदीप्रदेहा
दिव्याङ्गनाजनमनोऽभिमता रमन्ते ॥५१॥ महामूल्यै[ ३०-१]र्माल्यैः परिमलमिलन्मत्तमधुपैः
सपर्या पर्याप्त सकलजगदाप्तस्य विधिना । विधायोल्लोचाधं विविधमनवद्य सरभसः
सुरस्त्रीभिः सार्धं विलसति शिवं चानुवसति ॥५२॥ भक्ताधैर्भूरिभक्षतजनहृदयैर्मोदकाचैः सुखाद्यैः
सारैश्चित्रैः पवित्रैः सुरससुरभिभिः पेयचूण्यावलेयः । ' देधा सद्भक्तियुक्तं बलिमतुलफलं देवदेवाय दत्त्वा
गृह्णीताह्राय भव्या निधिमिव विधिना शर्मद[ ३०-२] धर्मराशिम् ॥५३॥ दूराकारितभूरिलोकनिकरां सर्वत्र दत्ताभयां
दानानन्दितदीनमार्गणगणां सङ्गीतवा थाद्भुताम् । यात्रां चित्रविलासलास्य सुभगां तुङ्गभ्रमत्स्यन्दनां । कृत्वा तीर्थ कृतां भवन्ति कृतिनो नित्यप्रवृत्तोत्सवाः ॥५४॥
॥चतुर्थोऽवसरोऽवसितः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392