SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २२: श्रीमत्सूराचार्यविरचितं एवमादिमलङ्कारं कारयन्ति जिनस्य ये । निवारयन्ति [ २९-२] दुर्वारं नरास्ते दुःखवारणम् ॥४८॥ स्नात्रं जगत्त्रयपतेर्विधिना विधाय ___ सर्वाङ्गसङ्गतमसङ्गतसर्वतापाः । निर्धूतधौतकलधौतरुचोतिरोच्यं श्रेयोऽनुभूय भवभावभिदो भवन्ति ॥४९॥ नश्यन्ति मलतापायाः कुर्वतां जिनमज्जनम् । आश्चर्य न विचार्यन्ते विभूनां हि विभूतयः ॥५०॥ . श्रीखण्डकुङ्कुमरसादिविलेपनानि कर्पूरसन्मृगमदादिविमिश्रितानि । कृत्वा विभोः सुरभिसुन्दरदीप्रदेहा दिव्याङ्गनाजनमनोऽभिमता रमन्ते ॥५१॥ महामूल्यै[ ३०-१]र्माल्यैः परिमलमिलन्मत्तमधुपैः सपर्या पर्याप्त सकलजगदाप्तस्य विधिना । विधायोल्लोचाधं विविधमनवद्य सरभसः सुरस्त्रीभिः सार्धं विलसति शिवं चानुवसति ॥५२॥ भक्ताधैर्भूरिभक्षतजनहृदयैर्मोदकाचैः सुखाद्यैः सारैश्चित्रैः पवित्रैः सुरससुरभिभिः पेयचूण्यावलेयः । ' देधा सद्भक्तियुक्तं बलिमतुलफलं देवदेवाय दत्त्वा गृह्णीताह्राय भव्या निधिमिव विधिना शर्मद[ ३०-२] धर्मराशिम् ॥५३॥ दूराकारितभूरिलोकनिकरां सर्वत्र दत्ताभयां दानानन्दितदीनमार्गणगणां सङ्गीतवा थाद्भुताम् । यात्रां चित्रविलासलास्य सुभगां तुङ्गभ्रमत्स्यन्दनां । कृत्वा तीर्थ कृतां भवन्ति कृतिनो नित्यप्रवृत्तोत्सवाः ॥५४॥ ॥चतुर्थोऽवसरोऽवसितः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy