________________
दानादिप्रकरणम् स्वर्विषयभुक्तिभूर्जे स्वहस्तितं सौख्यपत्तला लिखिता । मुक्तौ दूतो भूतः स्थापयतां जिनपतिप्रतिमाम् ॥ ३६॥ सत्पुरुषाणां मध्ये कृतो निबद्धो निवारिता सेवा । जिनराजाज्ञाराधनविधानतः फलमिदं सिद्धम् ||३७|| प्रतिष्ठि[ २८- १] तो जगन्नाथो यावन्नालङ्कृतो नराः । कथङ्कारमलङ्कारैस्तावद् भूयेत भूतले ॥३८॥ यत्नेन रत्नखचितं रुचितं तिरीटं
ये हाटकादिघटितं स्फुटकोटिकूटम् । भक्त्या जिनाधिपतिमूर्ध्नि निवेशयन्ति
ते शेखरा इव शिरःसु नृणां भवन्ति ॥३९॥ ये जिनं पतिभालतले तिलकं रचयन्ति रत्नचयरुचिरम् । स्युर्महतामपि महिता महीतलस्यापि तिलकास्ते - ॥४०॥ [ २८-२] देवकर्णयुगले तु कुण्डले
कुर्वतां स्फुरितदीप्तिमण्डले ।
7
जीव नन्द जय देव केवलं
पेशलं विशति कर्णयोर्वचः ॥४१॥ ग्रैवेयं ग्रीवायां समग्रजगदग्रिमस्य रचयन्ति । रत्नचितमुचितं चञ्चञ्चामीकरं चारुम् ||४२॥ कण्ठोपकण्ठे कठिनस्तनीनां
हठाल्लुठत्युज्ज्वलकण्ठिकेव ।
. उत्कण्ठिता कोमलकामिनीनां
तेषां नतिः सन्ततमातताक्षी ॥४३॥ यस्तीर्थकृतां सुकृती हारं वक्षस्थळे[ २९ - १] sवलम्बयति । हारायते मनोहरहरिणाक्षीणां स हृदयेषु ॥ ४४॥ श्रीवत्समतिविशाले जिनेशवक्षःस्थळे निवेशयताम् । शेते वक्षस्तल्पे श्रान्तेव श्री रविश्रान्तम् ॥ ४५ ॥ अङ्गदे जगदीशस्य कुर्वतामङ्गसङ्गिनी । जयश्रीः बाढबद्धेव बाहुदण्डौ न मुञ्चति ॥४६॥ यो निभुजयोर्भक्त्या निवेशयेन्मणिमयानि वलयानि । भूवलयं भुजयुगले प्रविलसति विलासिनस्तस्य ॥४७॥
Jain Education International
For Personal & Private Use Only
२१
www.jainelibrary.org