SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Jain Education International - श्रीमत्सूराचार्यविरचितं आयान्या(?) यतते[२६ - २ ] यतो यतिजनाः कुर्वन्ति सदेशनां श्रुत्वा धर्मपरा भवन्ति भविनो भव्या भवाम्भोनिधिम् । अक्लेशेन तरन्ति दुस्तरतरं तस्मादिदं कुर्वता कल्याणं सकलं जनस्य जनितं सत्त्वेन सत्त्वाप्तिना ||२७| मस्तकमाणिक्यं क्षोणीमण्डलमण्डनम् । कोsपि कारयते पुण्यः कुलकेतुर्निकेतनम् ||२८|| तेन कृत्यं कृतं सर्वं दुष्कृतं च निराकृतम् । कृतिना कारितं येन केतनं पुण्यकेतनम् ||२९|| रोचिष्णुरत्नचयनिर्मि [२७ - १] तनिर्मलाङ्ग स्फाशं स्फुटस्फुरदुरुस्फुटिकां सुरूपाम् । श्रीराजपट्टघटितां प्रबलप्रवालां कार्तस्वरप्रवरभास्वरकान्तकायाम् ॥३०॥ सद्रीतिका - रजत-दन्तमय महिष्ठां श्रेष्ठां गरिष्ठशुभकाष्ठकृतप्रतिष्ठाम् । ये मृण्मयीमपि तनिष्ठितनुं स्वशक्त्या निर्मापयन्ति विधिना प्रतिमां जिनस्य ॥३१॥ वियोगदौर्भाग्यदरिद्रताव्यथां पराभवं दुस्सहदुःस्थताकथाम् । विदन्ति वार्तामपि तेन दुर्गते भीष्टपुण्या इव पापसङ्गतेः ॥३२॥ सत्यङ्कारोर्पितः स्वर्गे मर्त्यशर्म वशीकृतम् । शासनं लेखितं मोक्षे पुंसा कारयता जिनम् ॥ ३३॥ कल्याणसम्पदखिलाऽपि वशीकृतोच्चै - रुच्चाटितं स्वमनसो ननु वैमन[ २७-२] स्यम् । विद्वेषितोऽनभिमता हित सम्प्रयोगः संस्तम्भितोऽतिशुभवल्लभविप्रयोगः ॥ ३४ ॥ तन्नास्ति यन्न विहितं स्वहितं प्रशस्तं तन्नास्ति यन्न दुरितं त्वरितं निरस्तम् । मन संविदधता प्रतिमाप्रतिष्ठा - मात्मा नरोत्तमपदे गमितप्रतिष्ठाम् ||३५|| For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy