Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
दानादिप्रकरणम् नीचासनो न चासन्नो नातिदूरे न पृष्ठतः । न पार्श्वतः समश्रेण्या पुरोऽपि न पराङ्मुखः ॥३८॥ सम्मुखीनोऽग्रतः पृष्ठे स्थास्नुकायः स्थिरासनः । नैवान्नपादिकां कुर्यान्नैव पादप्रसारिकाम् ॥३९॥ अवष्टम्भं न पट्टादौ नापि पर्यङ्कबन्धनम् । नाधिक्षेपं विवादं नो न सावज्ञं न चापरम् ॥४०॥ व्याख्यानादन्यदाप्येषां चेतसे यन्न रोचते । अपथ्यमिव दूरेण हितैषी तद्विवर्जयेत् ॥४१॥ चित्तानुवर्ती सर्वत्र प्रविष्ट इव चेतसि । प्रवर्तेत निवर्ते[१३-२]त हितकारी प्रियङ्करः ॥४२॥ यथा पूर्व तथा पश्चाद् यथाऽने पृष्ठतस्तथा । निर्व्याजवृत्तिः पूज्यानां सुखीकुर्यान्मनः सदा ॥४३॥ इति गुरुजनं भक्त्याऽऽराध्य प्रयत्नपरायणा . विमलमनसो धन्या मान्या जनस्य सुमेधसः । श्रुतजलनिधेर्गत्वा प्रान्त नितान्तमहीयसः ।
सपदि सुखिनः सम्पधन्ते पदं परसम्पदाम् ॥४४॥ नो माता सुतवत्सला न च पिता स्वामी प्रसन्नो न वा .. न भ्राता सहजाञ्जसो न सुहृदा नार्था न हस्त्यादयः । यन्निष्कारणनिष्कलङ्ककरुणाः सर्वोपकारोवता
[१४-१] हेयादेयविपश्चितस्तनुमतां श्रीसूरयः कुर्वते ॥४५॥ गुरूपकारः शक्येत नोपमातुमिहापरैः । उपकारैर्जगज्ज्येष्ठो जिनेद्रोऽन्यनरैर्यथा ॥४६॥ जन्मशतैरपि शक्यं नृभिरानृण्यं गुरोर्न तु विधातुम् । तद्गुणदानाभावे ते च गुणास्तस्य सन्त्येव ॥४७॥ ततो गुरूणां चरणाम्बुजं सदा
कृतज्ञभावेन कृती निषेवते । पदं महासम्पदमन्यदोहित
हितं मनोहारि यमा(शां)सि विन्दते ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392