Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 348
________________ दानादिप्रकरणम् ज्ञानदानं समीहन्ते महीयांसो महाधियः। महनीया महाभागा विरलाः केऽपि मानवाः ॥२२॥ अन्नादेश्च ग्रहीतारस्तारकास्तारचेतसः । दुर्लभा मुनयोऽन्येऽपि दीनाचाः कतिचिन्नराः ॥२३॥ सम्पत्यभावादशनादि दातुं . ज्ञानं च शक्यं सकलैने लोकैः। अदीय[ १८-२]मानेऽपि न च द्वयेऽपि सम्पद्यतेऽस्मिन्नरकादिपातः ॥२४॥ अभयमदत्तं दारुणनरकादिनिपातकारणं तेन । स्ववशमकष्टमनश्वरमनिशं देयं कुशलकामैः ॥२५॥ विषयोऽस्य सर्वजीवा मुक्ताः संसारिणश्च ते द्वेधा । संसारिणो द्विधा स्युः स्थावरजङ्गमविभागेन ॥२६॥ अवनिवने पवनसखः पवनश्च वनस्पतिश्च पञ्चविधाः । स्थावरसंज्ञा ज्ञेया विकलाक्षा द्वित्रिचतुरक्षाः ॥२७॥ पञ्चेन्द्रियैः सहैते जङ्गमनाम्ना समाम्नाताः । इति जीवा निजजीवितसदृशाः सदृशा [सदा] [१९-२]श्याः ॥२८॥ नानादुःसहदुःखदूनमनसो दीना दयाभाजनं, जायन्ते यदतीवतीव्रविविधव्याधिव्यथाव्याकुलाः । दारिद्रयोपहताः पराभवपदं यन्मानिनो मानवा स्तन्मन्ये परपोडनाविषतरोः पुष्पं फलं चापरम् ॥२९॥ . उदग्रतारुण्यजुषां च योषितां यदत्र वैधव्यमहाविडम्बना । भवेदथो दुर्भगतादरिद्रता प्रभृत्यदो निर्दयताविजृम्भितम् ॥३०॥ सम्पद्यते मृतापत्या पत्या नित्यं वियुज्यते । पतत्यत्यन्तसापत्न्ये स्त्री निस्त्रिंशतयाऽनिशम् ॥३१॥ इहामगर्भेषु च यान्ति जन्तवो [१९-२] मृति कुमारास्तरुणाश्च दारुणाम् । अपूर्णकामा कमनीयकामिनी मनोरमा निर्दयताप्रसादतः ॥३२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392