Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 347
________________ १२ श्रीमत्सूराचार्यविरचितं जन्म पुरुषार्थरहितं पुरुषार्थों धर्मवर्जितः पुंसाम् । धर्मश्च दयाविकलो विफलं च विडम्बनं चेदम् ॥१०॥ विभवविकलो विलासी विकामिनीकश्च कामुकविलासः । रमणी च रू[ १७-१]परहिता न शोभते निर्दयो धर्मः ॥११॥ .. विनयविहीनं शिष्यं गुरुमपि तत्त्वोपदेशनाशून्यम् । निर्जीवदयं धर्म न जातु सन्तः प्रशंसन्ति ॥१२॥ जीवितव्यादपि श्रेष्ठं प्राणिनां वस्तु नापरम् । तत्साधनं तदर्थे च समस्तमपरं यतः ॥१३॥ जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् । अपनीतेऽपनीतं वा तन्मूलमखिलं यतः ॥१४॥ पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् । त्यजन्ति जन्तवो जातु जीवितं न कथश्चन ॥१५॥ प्राणेभ्यो नापरं प्रेयो न पुण्यादपरं हितम् । न प्राणिरक्षणादन्यत् पु[ १७-२]ण्यं जगति विद्यते ॥१६॥ राज्यं प्राज्य ललितललना मत्तमातङ्गप्गान् । भक्कान् पत्तीन् पवनजविनो वाजिनः स्यन्दनश्चि । भाण्डागारं नगरनिकरं मेदिनीमन्यदिष्ट दिव्यं सर्व तृणमिव जनो जीवितार्थे जहाति ॥१७॥ एकच्छत्रं ददात्येको महादाता महीतलम् । प्राणानन्यस्तु वध्यस्य प्राणदाताऽतिवल्लभः ॥१८॥ प्राणत्राणात् परं दानं ज्ञानाभ्यासात् परं तपः। जिनागमात् परं शास्त्रं नास्त्याराध्यं गुरोः परम् ॥१९॥ अभयदाननिदानतया स्तुतं वितरणं तु विदः खलु कोविदः । [१८-१] अशनसद्वसनाधपि दीयते जगति जीवितपालनलोलुपैः ॥२०॥ निखिलदानफलं तदिदं मतं मतिमतामभयस्य विहायितम् । सकलसत्त्वसमूह[समी. ]हितं महदतो महितं जगते हितम् ॥२१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392