Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 349
________________ श्रीमत्सूराचार्यविरचितम् यज्जीवलोके लोकानामकल्याणं विलोक्यते । हिंसाफलमिदं सर्व वदन्ति वदतांवराः ॥३३॥ . दहनदम्भनवाहनदोहन र्वधविबन्धनरोधनकर्तनैः । दमनभेदनखेदनमारण प्रमुखदुःखगणैर तिदारुणैः ॥३४॥ दन्दह्यन्ते कृपाऽपात्रं विचित्रैः पशवोऽत्र यत् । स जन्तुघातसञ्जातपापपादपपल्लवः ॥३५॥ उदन्यया दुःसह[२०-१]याऽशनायया नितान्तशीतातपवातपीडया। मृतिं मृगाद्या गुरुभिर्गदवजै वजन्ति तज्जन्तुविधातचेष्टितम् ॥३६॥ असम्प्राप्तप्रतीकाराः सतां कारुण्यगोचराः । चिरं जीवन्ति रोगार्ता जीवघाताद्वनेचराः ॥३७॥ प्रपाय्यन्ते तप्तं त्रपु दहनकल्पं दहदहो प्रखाद्यन्ते मांसं निजतनुसमुत्थं सुविरसम् । विपाट्यन्ते चित्रेनिशितकरपत्रैरकरुणं प्रशाय्यन्ते शय्यां प्रतिदहन[२०-२]हेतिप्रतिभयाम् ॥३८॥ कुम्भीपाकेन बध्यन्ते प्रास्फाल्यन्ते शिलातले । पील्यन्ते चित्रयन्त्रेषु परतन्त्रा यथेक्षवः ॥३९॥ इत्थं कदर्थनमनेकविधं सहन्ते यन्नारका नरककूपकमध्यमग्नाः । . कालं प्रभूतमतिमात्रमनन्तरालं ___ हिंसाफलं तदखिलं खलु खेलतीह ॥४०॥ जन्तूपघातजनितोत्कटपातकस्य - मत्वा कटु प्रकटमत्र विपाकमेनम् । भव्या भवन्तु भवसम्भवदुःखभीताः प्राणिप्रबन्ध[२१-१]परिरक्षणबद्धकक्षाः ॥४१॥ येषां यत्र समुत्पत्तिस्तेषां तत्र परा रतिः । निम्बकीटस्य निम्बेऽपि रतिर्लोकेऽपि कथ्यते ॥४२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392