________________
१२
श्रीमत्सूराचार्यविरचितं जन्म पुरुषार्थरहितं पुरुषार्थों धर्मवर्जितः पुंसाम् । धर्मश्च दयाविकलो विफलं च विडम्बनं चेदम् ॥१०॥ विभवविकलो विलासी विकामिनीकश्च कामुकविलासः । रमणी च रू[ १७-१]परहिता न शोभते निर्दयो धर्मः ॥११॥ .. विनयविहीनं शिष्यं गुरुमपि तत्त्वोपदेशनाशून्यम् । निर्जीवदयं धर्म न जातु सन्तः प्रशंसन्ति ॥१२॥ जीवितव्यादपि श्रेष्ठं प्राणिनां वस्तु नापरम् । तत्साधनं तदर्थे च समस्तमपरं यतः ॥१३॥ जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् । अपनीतेऽपनीतं वा तन्मूलमखिलं यतः ॥१४॥ पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् । त्यजन्ति जन्तवो जातु जीवितं न कथश्चन ॥१५॥ प्राणेभ्यो नापरं प्रेयो न पुण्यादपरं हितम् । न प्राणिरक्षणादन्यत् पु[ १७-२]ण्यं जगति विद्यते ॥१६॥ राज्यं प्राज्य ललितललना मत्तमातङ्गप्गान् ।
भक्कान् पत्तीन् पवनजविनो वाजिनः स्यन्दनश्चि । भाण्डागारं नगरनिकरं मेदिनीमन्यदिष्ट
दिव्यं सर्व तृणमिव जनो जीवितार्थे जहाति ॥१७॥ एकच्छत्रं ददात्येको महादाता महीतलम् । प्राणानन्यस्तु वध्यस्य प्राणदाताऽतिवल्लभः ॥१८॥ प्राणत्राणात् परं दानं ज्ञानाभ्यासात् परं तपः। जिनागमात् परं शास्त्रं नास्त्याराध्यं गुरोः परम् ॥१९॥ अभयदाननिदानतया स्तुतं
वितरणं तु विदः खलु कोविदः । [१८-१] अशनसद्वसनाधपि दीयते
जगति जीवितपालनलोलुपैः ॥२०॥ निखिलदानफलं तदिदं मतं
मतिमतामभयस्य विहायितम् । सकलसत्त्वसमूह[समी. ]हितं
महदतो महितं जगते हितम् ॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org