Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 289
________________ लक्ष्मणकृतः 300 वरमुन्नतलाङ्गलात्सटाधूननभीषणात् । सिंहात्पादप्रहारोऽपि मा शगालाधिरोहणम् ॥१ 401 उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः । आसन्नमपि सारङ्गमीक्षते न मृगाधिपः ॥३ 402 कोपादेकतलाघातनिपतन्मत्तदन्तिनः । हरेहरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥४ 403 मृगारि वा मृगेन्द्रं वा हरिं व्याहरताज्जनः । _____तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ॥५ 404 पदे पदे गजेन्द्राणां दुन्दुभिर्वावदीति यत् । मन्युना तेन मन्येऽहं वने वसति केसरी ॥६ 405 तावद्गर्जन्ति मातङ्गा वने मदभरालसाः । शिरोविलग्नलाङ्गलो यावन्नायाति केसरी ॥७ 406 निपतन्ति न मातङ्गकुम्भपाटनलम्पटाः । वल्गत्स्वपि कुरङ्गेषु मृगारेर्नेखराः खराः ॥८ 407 सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । ___जनासे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥९ 408 किं कूर्मः क उपालभ्यो यत्रेदमसमासम् । , का काकिण्यपि सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥१० 409 शशैर्लीनं मृगैर्नष्टं वराहैर्वलितं रुषा । हयानां हृषितं श्रुत्वा सिंहैः पूर्ववदाप्तितम् ॥११ 410 मृगैाप्तं सदा क्षेत्रं रक्ष्यते तृणमानुषैः । सिंहस्तु तत्परिक्रान्तं न गजैन च वाजिभिः ॥१२ 411 मत्तेभकुम्भनिर्भेदकठोरनवराशनिः । मृगारिरिति नाम्नैव लघुतामेति केसरी ॥१३, [भर्तृहरि, सु. सं. ६३८] अथ वर्षा । 312 गर्न वा वर्ष वा मेघ मुत्र वाशनितोमरम् । गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ॥१ 300 ख० वरमुत्तुङ्गलाङ्गलात्। 303 ख. 'व्याहरतां जनः' । 305 प. यावन्नायान्ति.' । 312. ख प्रतौ न विद्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392