Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
लक्ष्मणकृतः
350 गणस्य दाता क्षीयेत गणस्य तु न किञ्चन ।
गणाद्ग्रहीता वर्धेत गणस्य तु न किञ्चन ॥२२ 351 स्वतो न कश्चन गुरुलधुर्वा नापि कश्चन ॥
उचितानुचिताचारवश्ये गौरवलाघवे ॥२३ 352 यदीच्छसि वशीकर्तुमक्लेशेन जगत्त्रयम् ।
परापवादसस्येभ्यश्चरन्ती गां निवारय ॥२४ अनवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।
सर्पिण्यत्ति किल स्नेहात् स्वापत्यानि न कामतः ॥२५ 354 वने रतिर्विरक्तस्य रक्तस्य तु जने रतिः ।
अनवस्थितचित्तस्य न वने न जने रतिः ॥२६ 355 यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात् तत्तत्कुर्वीत सर्वतः ॥२७ 356 सर्व परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतदुक्तं समासेन लक्षणं दुःखसौख्ययोः ॥२८ 357 अधोमुखं त्रयं नेयं नेयमूर्ध्वमुखं त्रयम् ।
वापीकूपतडागानि यशो देवकुलं कुलम् ॥२९ 358 त्रयः स्थानं न मुश्चन्ति काकाः कापुरुषाः मृगाः ।
मुञ्चन्ति त्रयः स्थानं सिंहाः सत्पुरुषा गजाः ॥३० 359 सप्तैतानि न पूर्यन्ते पूर्यमाणान्यपि कचित् ।
ब्राह्मणाग्निर्यमो राजा समुद्र उदरं गृहम् ॥३१ 360 सद्यः प्रीतिकरो दाता सयश्चित्तहराः स्त्रियः ।
सद्यः पुष्टिकरं तोयं सद्यः पतति विप्रहा ॥३२ 361 दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥३३ 362 सत्यं ब्रूयात्प्रियं ब्रूयात् न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥३४
350 ख. गणादग्रहीत ॥ 351 प. गुरुलधुवापि न कस्य च । 353 ख. स्वापत्यान्नि न कामतः । 355 ख. कुर्वन्ति ॥ 356 ख. सुखदुःखयोः । 357 ख तडागा यशो। 361 प. क्षिपेत्पादं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392