Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 295
________________ लक्ष्मणकृतः 376 उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी । तादृशो यदि पूर्व स्यात्कस्य न स्यात्फलादयः ॥४८ 377 वर्जयेत्कासवान् चौर्य निद्रावान् चर्मचोरिकाम् ।। रोगवान् रसनालौल्यं धनवान् सर्वतः कलिम् ॥४९ 378 कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः । बन्धक्यो यं प्रशंसन्ति स राजन् पुरुषाधमः ॥५० 379 माज्ञामङ्गो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥५१ 380 पादमायान्निधिं कुर्यात् पादं वित्ताय ख(?स)येत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥५२ 381 परस्त्री मन्दरूपाऽपि विकरोत्येव मानसम् । यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ॥५३ । 382 ग्रहाणां चरितं स्वप्नं निमित्तमुपयाचितम् । फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥५४ 383 यथा व्याधी हरेत्पुत्रान् दंष्ट्राभिर्न [तु] पीडयेत् । भीता पतनभेदाभ्यां तथा वर्णान् समुच्चरेत् ॥५५ 384 त्रिभिर्वर्षे त्रिभिर्मासैत्रिभिः पक्षैत्रिभिःदिनैः । अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥५६ 385 योनौ कर्मणि बीजे च यस्य न स्याव्यतिक्रमः । तस्य कृच्छ्रगतस्यापि न पापे रमते मतिः ॥५७ 386 ग्रामो नास्ति कुत: सीमा पत्नी नास्ति कुतः सुतः । प्रज्ञा नास्ति कुतो विद्या धर्मों नास्ति कुतो दया ॥५८ 387 अनागतविधातारमप्रमत्तमकोपनम् । चिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥५९ 388 धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम् । सेवा न किञ्चिदस्तीति नाहमस्मीति साहसम् ।।६० 377 ख. धनवानन्यतः कलिम् । 378 ख. पुरुषोधभः । 382 ख. प्रतौ न विद्यते । 383 ख. सीतापतनभेदा; समुद्गरेत् । 384 ख. प्रतौ न विद्यते । 385 प. प्रतौ न विद्यते। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392