________________
लक्ष्मणकृतः
376 उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी ।
तादृशो यदि पूर्व स्यात्कस्य न स्यात्फलादयः ॥४८ 377 वर्जयेत्कासवान् चौर्य निद्रावान् चर्मचोरिकाम् ।।
रोगवान् रसनालौल्यं धनवान् सर्वतः कलिम् ॥४९ 378 कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः ।
बन्धक्यो यं प्रशंसन्ति स राजन् पुरुषाधमः ॥५० 379 माज्ञामङ्गो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् ।
पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥५१ 380 पादमायान्निधिं कुर्यात् पादं वित्ताय ख(?स)येत् ।
धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥५२ 381 परस्त्री मन्दरूपाऽपि विकरोत्येव मानसम् ।
यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ॥५३ । 382 ग्रहाणां चरितं स्वप्नं निमित्तमुपयाचितम् ।
फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥५४ 383 यथा व्याधी हरेत्पुत्रान् दंष्ट्राभिर्न [तु] पीडयेत् ।
भीता पतनभेदाभ्यां तथा वर्णान् समुच्चरेत् ॥५५ 384 त्रिभिर्वर्षे त्रिभिर्मासैत्रिभिः पक्षैत्रिभिःदिनैः ।
अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥५६ 385 योनौ कर्मणि बीजे च यस्य न स्याव्यतिक्रमः ।
तस्य कृच्छ्रगतस्यापि न पापे रमते मतिः ॥५७ 386 ग्रामो नास्ति कुत: सीमा पत्नी नास्ति कुतः सुतः ।
प्रज्ञा नास्ति कुतो विद्या धर्मों नास्ति कुतो दया ॥५८ 387 अनागतविधातारमप्रमत्तमकोपनम् ।
चिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥५९ 388 धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम् ।
सेवा न किञ्चिदस्तीति नाहमस्मीति साहसम् ।।६०
377 ख. धनवानन्यतः कलिम् । 378 ख. पुरुषोधभः । 382 ख. प्रतौ न विद्यते । 383 ख. सीतापतनभेदा; समुद्गरेत् । 384 ख. प्रतौ न विद्यते । 385 प. प्रतौ न विद्यते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org