SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 389 सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते । प्रारम्भे कृतबुद्धिनां सिद्धिरव्यभिचारिणो ॥६१ 390 चतुरः सृनता पूर्वमुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥६२ 391 जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥६३ - [भर्तृहरि. सु. सं. २१५] 392 यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः । याहिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः ॥६४ 393 सभा वा न प्रवेष्टव्या वक्तव्यं वाऽसमञ्जसम् । अब्रुवन्विब्रुवन्वाऽपि नरो भवति किल्बिषी ॥६५ 394 दूरस्थेन प्रवृत्तस्य जनकोऽपि प्रकुप्यति । ' अनुजायस्य(१) पन्थानं स कृसोऽप्येतदासताम्(?) ॥६६ अथ कृपणः 395 विडम्बनैव पुंसि स्त्री परप्रणयपांसुला । कान्ति कामिव कुर्वीत कुणौ कङ्कणकल्पना ॥१ 396 दारिद्रयस्य परा मूर्तिर्यात्रा न द्रविणाल्पता। जरद्वधनः शम्भुः तथाऽपि परमेश्वरः ॥२ 397 कृपणेन शवेनेव मृतेनापि न दीयते । मांसं वर्धयता तेन काकस्योपकृतिः कृता ॥३ 398 उदारचरितात् रागी याचितः कृपणोऽधिकः । एको दत्ते धनं प्राणानन्यः प्राणांस्ततो धनम् ॥४ 399 अक्षरद्वयमभ्यस्त नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् । ५ 400 कण्ठे गद्गदभाषित्वं मुखे वैवयेवेपथुः । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥६ 390 155 तम श्लेकोऽयं पुनरावृत्तोत्र प. प्रतौ स्त्रीप्रशंसायां वर्तते । नोपलभ्यतेऽत्र स्थाने ख प्रतौ। 394 प० प्रतौ श्लोकोऽयं दुर्वाच्यः । ख. प्रतौ नोपलभ्यते । 395 पं० विडंपिनैव; प० परप्रणयपांसुले। 400 ख. प्रतौ नास्ति । - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy