________________
लक्ष्मणकृतः 401 शरणं किं प्रयातानि विषवन्मारयन्ति किम् ।
न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् । 402 कृपणेन समो दाता न भूतो न भविष्यति ।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥८ दानोपभोगशून्येन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनों वयम् ॥९ 464 दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते ।
पुसां स्याद्यदि सा लक्ष्मीरलक्ष्मी कतमा भवेत् ॥१० 405 कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् ।
दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपढि सः॥११ 406 ददासि यच्च विप्रेभ्यो यच्चानासि दिने दिने।
तत्ते धनमहं मन्ये शेषं कस्यापि रक्षसि ॥१२ अथ दैवम् 407 कलत्रनिगडे दत्त्वा न सन्तुष्टः प्रजापतिः ।
भूयोऽप्यपत्यदानेन बबन्ध गलशृङ्खलाम् ॥१ 408 यद्भावि न तद्भावि भावि यन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥२
- [भर्तृहरि,सु. सं, ६.६६] 409 ये प्रातस्ते न मध्याह्ने ये मध्याहे न ते निशि ।
ये निशायां न तेऽन्येधुरिन्द्रजालमहो विधेः ॥३ 410 परीक्ष्य सत्कुलं विद्यां वयः शौर्य सुशीलताम् ।
विधिददाति निपुणः कन्यामिव दरिद्रताम् ॥४ 411 न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः ।
सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥५ 412 घिग्दैवं लोचने स्वच्छ पात्रं काजलभस्मनः ।
सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । ६ 401 ख. शरणं किं न प्रयातानि । 403 ख. किं गतेनैव । 404 ख. कण्या व सुहृद्भिः। 405 ख. कृतोपकारं । 406 ख. यच्चाश्नाति । 407 प. विषोऽयमदः किन्न धीयते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org