SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 413 पिबन्ति मधु पमेषु भृङ्गाः केसरधूसराः । हंसाः सेवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥७ 414 धातस्तात विरुद्धोऽपि द्वितयं मा कृथाः सताम् । भृत्यत्वमविशेषज्ञे स्नेहमन्यरते जने ॥८ [भर्तृहरि.सु.सं,५४६] 415 न स प्रकारः कोऽप्यस्ति येनेयं भवितव्यता। छायेव निजकायस्य लध्यते जातु जन्तुभिः ॥९ 416 किं करिष्यति पाण्डित्यं विनयो विक्रमोऽपि वा । देवो यस्य छलान्वेषी करोति विफलान् गुणान् ॥१० अथ वैद्यकम् 417 मध्वा जरा मनुष्याणां मनध्वा दन्तिनां जरा । अमैथुनं जरा स्त्रीणामश्वानां मैथुनं जरा ॥१ 418 जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया । वृहस्पतिरविश्वासः पाञ्चालः स्त्रीषु मार्दवम् ॥२ 419 दिवा न भुज्यते यच्च यच्च रात्रौ न भुज्यते । जीर्णे न भुज्यते यत्र(च) तेन जीर्यन्ति जन्तवः ॥३ 420 शीतमध्वा कदन्नानि व्यतं तवयसः स्त्रियः । मनसः प्रातिकल्यं च जरायाः पञ्च हेतवः ॥४ 421. कचिदुष्णं कचित्शीतं क्वचित्क्वथितशीतलम् । कचिद्भेषजसंयुक्तं न कचित् वारि वार्यते ॥५ 422 आतपः कटुको रूक्ष'छाया मधुरशीतला । कषायमधुरा ज्योत्स्मा सर्वदोषहरं तमः ॥६ 423 वर्जयेद्विदलं शूली मांसं कुष्ठी घृतं ज्वरी । नवमन्नमतिसारी चक्षुरोगी च मैथुनम् ॥७ 424 अन्नादष्टगुणं पिष्टं पिष्टादष्टगुण पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥८ 425 व्यायामः कफनाशाय वातनाशाय मर्दनम् । स्नानं च पित्तनाशाय कुर्यादेतत्त्रयं ततः ॥९ 417 ख. हयानां मैथुनं जरा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy