________________
सूक्तिरत्नकोषः 363 अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते ।
धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥३५ 364 धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि[नम् ।
दुर्वारमरिषड्वर्ग दूरतः स्यजतः सुखम् ॥३॥ 365 निद्राभङ्गं कथाच्छेदं सारथ्यं क्रयविक्रयम् ।
शक्रोऽपि लघुतां याति पञ्चैतानि समाचरन् ॥३७ 366 प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः ।
वीणायां वाधमानायां वेदोद्गारो न राजते ॥३८ 367 अम्भो(अपो)ग्निर्ब्रह्मतः क्षत्रमश्मतो लोहमुत्थितम् ।
"तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥३९ 368 यत्रात्मीयो जनो नास्ति मेदस्तत्र न विद्यते ।
कुठारैर्दण्डनिर्मुक्तैश्छिद्यन्ते तरवः कथम् ॥४. 369 विपक्षमखिलीकृत्य प्रतिष्ठा खल दुर्लभा ।
अनीत्वा परतां धूलिमुदकं नावतिष्ठते ॥४१ 370 त्रय एवाधमा राजन् भार्या दासस्तथा सुतः ।
यत्ते(?) समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥४२ 371 स जयी यस्य मातङ्गा यस्याश्वास्तस्य मेदिनी ।
कोशो यस्य स दुर्धर्षो दुर्ग यस्य स दुर्जयः ॥१३ 372 मन्त्रिणां भिन्नसंधाने भिषनां सान्निपातके । ..... कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥१४ 373 वनानि दहतो वह्नः सखा भवति मारुतः।। स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥४५
[भर्तृहरि, सु. सं. ७०३] 374 सर्वथाऽपि त्वया राजन् त्रिविधं निष्प्रयोजनम् ।
न स्थातव्यं न गन्तव्यं न वक्तव्यं कथश्चन ॥४६ 375 घोटकः कृषिनाशाय वित्तनाशाय कुञ्जरः । • श्यालकः सन्मनाशाय सर्बनाशाय मातुलः ॥४७
303 ख. अपकारणि । 367 प. तप्तोऽग्नि । 370 प. यत्र एवाधुना राजन् । 372.प. स्वास्थे । 373 ख० कस्यास्ति गौरवम् । 375 ख. शालका...सर्वनाशाय मातुलः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org