Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 310
________________ सूक्तिरत्नकोषः अथ स्वानुभव:। 562 दिक्कालाधनवच्छिन्नानन्तचिन्मात्ररूपिणे । '. स्वानुभृत्यैकमानाय नमः शान्ताय तेजसे ॥१॥ 563 मात्रां यस्योपजीवन्ति जलस्थलनभश्च सः ।। तं स्वनि समात्मानं सानन्दं प्रणिदध्महे ॥२ 564 याऽनुभूतिरजाऽमेयाऽनन्ताऽऽत्मानन्दविग्रहा । महदादिजगन्मायाचित्रभितिं नमामि ताम् ॥३ 565 इक्षुक्षीररसादीनां माधुर्यस्यान्तरं महत् । . मेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते ॥४ 566 काकोलकनिशेवायं संसारोऽज्ञात्मवेदिनोः । या निशा सर्वभूतानामित्युवाच स्वयं हरिः ॥५ अथ. वसन्तः । 567 लतां पुष्पवन्ती स्पृष्ट्वा कृतस्नानो जलाशये । पुनस्तत्सङ्गशङ्कीव वाति वायुः शनैः शनैः ॥१ 568 वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः । ललनालोलधम्मिल्लमल्लिकामोदवासिताः ॥२ : [अमरुशतक,१२१ ] 569 किंशुक्रव्यपदेशेन तरुमारुह्य सर्वतः । - दग्धादग्धान्यरण्यानि पश्यतीव विभावसुः ३॥ [ काव्यालंकार, २,९३) 570 यथान्ति शरणं नार्यः स्वयमेव प्रियं जनम् । तद्वसन्तमदान्धस्य परपुष्टस्य चेष्टितम् ४॥ 571 कोकिलचूतशिखरे मञ्जरीरेणुपिञ्जरः । गदितैर्व्यक्ततामेति कुलीन चेष्टितैरिव ५॥ 572 नेय विरौति भृङ्गाली मदेन मधुरस्वरा । . अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥६ 573 जलान्तान्नलिनीनाला हर्षसनातकण्टकाः । ... मधुरं कोकिलागीतरवं श्रोतुमेवोत्थिताः ॥७ 569 . दग्धदग्धाम. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392