Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञेयं ज्ञात्वा ज्ञानतो ज्ञानवन्तो हेयं हित्वा पूजनीया जनानाम् । सञ्जायन्तेऽत्रैव जन्मन्यजस्रं
पापत्र सादन्यजन्मन्यवश्यम् ॥१०॥
कल्याणकलापकारणं ज्ञानं सर्वविपत्तितारणम् । [९-२] मिथ्यात्वादिविरोधिबाधनं सिद्धेः सिद्धं साधु साधनम् ॥११॥
श्रीमत्सूराचार्यविरचितम्
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥१२॥
ज्ञात् कर्म क्षपति बहुवर्ष कोटिभिः प्राणो । तज्ज्ञानी गुप्तात्मा क्षयत्युच्छ्वासमात्रेण ॥१३॥
वाचकमुख्योऽप्याख्यत्सज्ज्ञानादीनि मुक्तिमार्ग इति । न च मार्गणीयमपरं परमस्ति महात्मनां मुक्तेः ॥१४॥ यो दिशति मुक्तिमार्ग परोपकारी ततोऽपरो न परः । परमपदानन्दादिव भवभवनसमुद्भवान्नन्दः ॥१५॥
समीहमानैः स्वपरोपकारं
परिश्रमं श्रीश्रमणैः स्वकीयं
ज्ञानं सदा देयमचिन्तयद्भिः ।
कृत्यान्तरं वा सुतरामतन्द्रैः ॥ १६ ॥
नास्मिंश्चित्तं चरति सुचिरं चिन्तनीयान्तरेषु
Jain Education International
व्यग्रं वक्रं वदति न परं येन सावद्यजातं
प्रायः [कायः प्र ] [ १० - १ ] चयति न वा दुष्टचेष्टानिष्टाम
धर्मादानं तदिदमुदितं ज्ञानदानं प्रधानम् ॥ १७॥
ज्ञानमेकमनेकेषामेककाल [ उपक्रि] याम् । करोति याति नो हानिं दत्तं वर्धेत कौतुकम् ॥१८॥
१ 'कुरुतेऽर्जुन' इति भगवद्गीतायाम् ॥
[ भगवद्गीता ४.३७ ]
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392