SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ज्ञेयं ज्ञात्वा ज्ञानतो ज्ञानवन्तो हेयं हित्वा पूजनीया जनानाम् । सञ्जायन्तेऽत्रैव जन्मन्यजस्रं पापत्र सादन्यजन्मन्यवश्यम् ॥१०॥ कल्याणकलापकारणं ज्ञानं सर्वविपत्तितारणम् । [९-२] मिथ्यात्वादिविरोधिबाधनं सिद्धेः सिद्धं साधु साधनम् ॥११॥ श्रीमत्सूराचार्यविरचितम् यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥१२॥ ज्ञात् कर्म क्षपति बहुवर्ष कोटिभिः प्राणो । तज्ज्ञानी गुप्तात्मा क्षयत्युच्छ्वासमात्रेण ॥१३॥ वाचकमुख्योऽप्याख्यत्सज्ज्ञानादीनि मुक्तिमार्ग इति । न च मार्गणीयमपरं परमस्ति महात्मनां मुक्तेः ॥१४॥ यो दिशति मुक्तिमार्ग परोपकारी ततोऽपरो न परः । परमपदानन्दादिव भवभवनसमुद्भवान्नन्दः ॥१५॥ समीहमानैः स्वपरोपकारं परिश्रमं श्रीश्रमणैः स्वकीयं ज्ञानं सदा देयमचिन्तयद्भिः । कृत्यान्तरं वा सुतरामतन्द्रैः ॥ १६ ॥ नास्मिंश्चित्तं चरति सुचिरं चिन्तनीयान्तरेषु Jain Education International व्यग्रं वक्रं वदति न परं येन सावद्यजातं प्रायः [कायः प्र ] [ १० - १ ] चयति न वा दुष्टचेष्टानिष्टाम धर्मादानं तदिदमुदितं ज्ञानदानं प्रधानम् ॥ १७॥ ज्ञानमेकमनेकेषामेककाल [ उपक्रि] याम् । करोति याति नो हानिं दत्तं वर्धेत कौतुकम् ॥१८॥ १ 'कुरुतेऽर्जुन' इति भगवद्गीतायाम् ॥ [ भगवद्गीता ४.३७ ] For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy