________________
द्वितीयोऽवसरः धर्मस्य निर्मलधियामथ साधनानि
सद्दानशीलसुतपांसि सभावनानि । श्रीमज्जिनोऽभ्यधित(?) विश्वजनीनवाक्यः
कस्यापि साधनविधिः किल कोऽपि शक्यः ॥१॥ ज्ञानस्याचं दानमत्रानिदानं
' दातुर्लातुर्धर्मसिद्धेनिंदानम् । - - - न्यत् स्यात् सुखानां निधानं
तेनैवादावुक्तमेतत् प्रधानम् ॥२।। अभयान्ना[ ८-२]दिभ्यां(?) तु प्रवर्तननिवर्तनेन मानाम । अर्थेऽनर्थे च यथा ज्ञाता तेनोत्तमं ज्ञानम् ।।३।। सर्वपुरुषार्थसिद्धेर्निबन्धनं धीधना वदन्तीदम् । तेन ज्ञानं ददता दत्ताः [सर्वेऽ]पि पुरुषार्थाः ॥ ४॥ अन्यच्च धर्ममूलं करुणा सा ज्ञानकारणा मिद्धा । सिद्धान्तेऽपि प्रथितं प्रथमं ज्ञानं ततः करुणा ॥५।। धर्मेण चाखिलसुखानि समीहितानि
मामरेषु मनुजो लभते हितानि ।' धर्मः [ ९-१] समस्तसुखसिद्धिनिमित्तमुक्तः
___ सर्वेण वादिनिवहेन विना विवादम् ।।६।। तद्धर्मसाधनमिदं ददताखिलानि
सौख्यानि धर्मजनितानि समर्पितानि । वित्तं [पुन]र्वितरता बनितारतादि
वस्तूनि वित्तसुलभानि विलोभनानि ॥७॥ लोकेऽपि रूपके दत्ते प्रदत्तं भोजनं जनः । हेतौ कार्योपचारेण निर्विचारं वदत्यदः ॥८॥ लोकद्वयेऽभिलषता विपुलोपकार
दातव्यमेतदनिशं करुणापरेण । . ज्ञानात् परं न परमस्ति परोपकार
सम्पादनं सपदि सम्पदमादधानम् ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org