________________
सूक्तिरत्नकोषः
अथ स्वानुभव:। 562 दिक्कालाधनवच्छिन्नानन्तचिन्मात्ररूपिणे । '.
स्वानुभृत्यैकमानाय नमः शान्ताय तेजसे ॥१॥ 563 मात्रां यस्योपजीवन्ति जलस्थलनभश्च सः ।।
तं स्वनि समात्मानं सानन्दं प्रणिदध्महे ॥२ 564 याऽनुभूतिरजाऽमेयाऽनन्ताऽऽत्मानन्दविग्रहा ।
महदादिजगन्मायाचित्रभितिं नमामि ताम् ॥३ 565 इक्षुक्षीररसादीनां माधुर्यस्यान्तरं महत् ।
. मेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते ॥४ 566 काकोलकनिशेवायं संसारोऽज्ञात्मवेदिनोः ।
या निशा सर्वभूतानामित्युवाच स्वयं हरिः ॥५ अथ. वसन्तः । 567 लतां पुष्पवन्ती स्पृष्ट्वा कृतस्नानो जलाशये ।
पुनस्तत्सङ्गशङ्कीव वाति वायुः शनैः शनैः ॥१ 568 वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः । ललनालोलधम्मिल्लमल्लिकामोदवासिताः ॥२ :
[अमरुशतक,१२१ ] 569 किंशुक्रव्यपदेशेन तरुमारुह्य सर्वतः । - दग्धादग्धान्यरण्यानि पश्यतीव विभावसुः ३॥
[ काव्यालंकार, २,९३) 570 यथान्ति शरणं नार्यः स्वयमेव प्रियं जनम् ।
तद्वसन्तमदान्धस्य परपुष्टस्य चेष्टितम् ४॥ 571 कोकिलचूतशिखरे मञ्जरीरेणुपिञ्जरः ।
गदितैर्व्यक्ततामेति कुलीन चेष्टितैरिव ५॥ 572 नेय विरौति भृङ्गाली मदेन मधुरस्वरा । .
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥६ 573 जलान्तान्नलिनीनाला हर्षसनातकण्टकाः ।
... मधुरं कोकिलागीतरवं श्रोतुमेवोत्थिताः ॥७ 569 . दग्धदग्धाम.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org