SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः . 549 प्रायेण धनिनां लोके धने तृष्णा गरोयसी । पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥५॥ 550 कोटिद्वयस्य लामेऽपि नतं सद्वंशजं धनुः । शरस्त्ववंशजः स्तब्धो लक्षलाभस्य शङ्कया ॥६॥ 551 या प्रकृत्यैव चपला निपतत्यशुचावपि । । स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥७॥ 552 आक्षीरधारैकभुजामागभैंकनिवासिनाम् । नमोऽर्थेभ्यः पृथक्त्वं ये भ्रातृणामपि कुर्वते ॥८॥ अथ दरिद्री। 553 धर्मार्थकामहीनस्य परपिण्डान्नभोजिनः । काकस्येव दरिद्रस्य दीर्घमायुरनर्थकम् ॥१॥ 554 हे दारिद्रय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः। जगत्पश्याम्यहं येन न मां पश्यति कश्चन ॥२॥ अथ द्विकम् । 555 द्वाविमौ पुरुषी लोके सूर्यमण्डलमेदिनौ । परिव्राट् योगयुक्तश्च रणे चाभिमुखो हतः ॥१॥ 556 द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥२॥ 551 द्वाविमावम्भसि क्षेप्यो बद्ध्वा गाढं गले शिलाम् । धनिनं चाप्रदातारं दरिद्रं वातपस्विनम् ॥३ . 558 द्वाविमौ पुरुषो लोके परप्रत्ययकारिणो । स्रियः कामितकामिन्यो लोकः पूजितपूजकः ।४ 559 द्वाविमौ पुरुषो लोके मुखिनौ न कदाचन् । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥५... 560 द्वाविमौ पुरुषो लोके न भूतो न भविष्यतः । . प्रार्थितो यश्च कुरुते यश्च नार्थयते परम् ॥३ ..561 द्वाविमौ सर्वलोकानां शिरःशूलकरौ नरौ । . .. गृहस्थश्च निरारम्भो यतिश्च सपरिग्रहः ॥७ 552 ख. आक्षीरनीरजभुजा० । प० ०मागर्भेकनिवासिनाम् । 559. ख :प्रतौ न विद्यते । 560. ख. 'न भूतो न भविष्यतः' । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy