Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
सूक्तिरत्नकोषः 413 पिबन्ति मधु पमेषु भृङ्गाः केसरधूसराः ।
हंसाः सेवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥७ 414 धातस्तात विरुद्धोऽपि द्वितयं मा कृथाः सताम् । भृत्यत्वमविशेषज्ञे स्नेहमन्यरते जने ॥८
[भर्तृहरि.सु.सं,५४६] 415 न स प्रकारः कोऽप्यस्ति येनेयं भवितव्यता।
छायेव निजकायस्य लध्यते जातु जन्तुभिः ॥९ 416 किं करिष्यति पाण्डित्यं विनयो विक्रमोऽपि वा ।
देवो यस्य छलान्वेषी करोति विफलान् गुणान् ॥१० अथ वैद्यकम् 417 मध्वा जरा मनुष्याणां मनध्वा दन्तिनां जरा ।
अमैथुनं जरा स्त्रीणामश्वानां मैथुनं जरा ॥१ 418 जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया ।
वृहस्पतिरविश्वासः पाञ्चालः स्त्रीषु मार्दवम् ॥२ 419 दिवा न भुज्यते यच्च यच्च रात्रौ न भुज्यते ।
जीर्णे न भुज्यते यत्र(च) तेन जीर्यन्ति जन्तवः ॥३ 420 शीतमध्वा कदन्नानि व्यतं तवयसः स्त्रियः ।
मनसः प्रातिकल्यं च जरायाः पञ्च हेतवः ॥४ 421. कचिदुष्णं कचित्शीतं क्वचित्क्वथितशीतलम् ।
कचिद्भेषजसंयुक्तं न कचित् वारि वार्यते ॥५ 422 आतपः कटुको रूक्ष'छाया मधुरशीतला ।
कषायमधुरा ज्योत्स्मा सर्वदोषहरं तमः ॥६ 423 वर्जयेद्विदलं शूली मांसं कुष्ठी घृतं ज्वरी ।
नवमन्नमतिसारी चक्षुरोगी च मैथुनम् ॥७ 424 अन्नादष्टगुणं पिष्टं पिष्टादष्टगुण पयः ।
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥८ 425 व्यायामः कफनाशाय वातनाशाय मर्दनम् ।
स्नानं च पित्तनाशाय कुर्यादेतत्त्रयं ततः ॥९ 417 ख. हयानां मैथुनं जरा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392