SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्न कोषः 67 लुब्धस्तब्धोऽनृजुमूर्खः प्रभुरेकान्तदारुणः । बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥ ८ 68 वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं स न समानः स्यात्पुच्छेन पिशुनः शुनः ॥ ९ 69 चारुता परदारेभ्यो धनं लोकोपतप्तये । प्रभुत्वं साधुनाशाय स्वले खतरा गुणा ॥ १० 70 चमत्कुर्वन्ति नश्चित्तमपूर्वाः केऽप्यमी खलाः । येषां न तिलसम्बन्धः कदाचिदपि दृश्यते ॥ ११ 71 अहो वलभुजङ्गस्य कोऽप्यपूर्वो वधक्रमः । कर्णे लगति चान्यस्य प्राणैश्चन्यो वियुज्यते ॥ १२ 72 स्नेहेन भूतिदानेन कृतस्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिके तिष्ठन् करोत्येकमपि द्विधा ॥१३ 73 निधानमिव मात्सर्यमन्तनवस्य तिष्ठति । परश्लाघाषु येनास्य दृश्यते मुद्रितं मुखम् ||१४ 74 वराकः स कथं नाम नम्रतामेति दुर्जनः । आपादमस्तकं यस्य स्थिता चान्तः कुशीलता ॥ १.५ 75 स्वभाव कठिनस्यास्य कृत्रिमां विभ्रते नतिम् । गुणोऽपि परहिंसायै चापस्य खलस्य च ॥१६ 76 प्रकाशयन्ति प्रथमं जनयत्यन्धतामनु । भवत्यसाधुवाक्यार्थास्त डिद्विलसितोपमा ॥१७ 77 स्वलानामुपदेशोऽपि प्रकोपाय शमाय न । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥१८ 78 खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धोतोऽपि कि याति वायसः कलहंसताम् ॥१९ 79 नौश्च दुर्जनजिह्वा च प्रतिकृल [ वि ] सर्पिणी जनप्रतारणायैव दारुणा केन निर्मिता । Jain Education International 75 प० 'स्वभावकठिनास्यस्य' 76 ख० 'भवन्ति साधुवाक्यार्थां' ॥२० For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy