SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 53 पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । ___सर्वसङ्गनिवृत्तिर्वा विभूतिर्वातिविस्तरा ॥४ 54 कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥५ [भर्तृहरि, सु. सं. ३४] 55 नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः । येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥६ 56 लज्जावतः कुलीनस्य धनं याचितुमिच्छतः । _____ कण्ठे पारावतस्येव वाक्करोति गतागतम् ॥७ 57 आदौ तन्यो बृहन्मध्या विस्तारिण्यः पदे पदे । ____ यायिन्यो न निवर्तिन्यः सतां मैत्र्यः सरित्समाः ।।८ 58 मन्दास्त्वां नोद्धरन्तीति मा महात्मन् विषीद तत् । गजानां पङ्कमग्नानां गना एव धुरंधराः ॥९ 59 शराबमनुकुर्वन्ति प्रीतयः सर्वदेहिनाम् । अधोमुखमसाधूनां विपरीतं विपश्चिताम् ॥१० अथ खलः । 60 यस्यामृतकलाप्यास्ये दुर्मुखस्य न विद्यते । ___कथं प्रलापी पार्प यान् स स्वलः खलु जीवति ॥१ 61 का खलेन सह स्पर्धा सज्जनस्याभिमानिनः । भाषणं भीषणं साधोर्दूषणं यस्य भूषणम् ॥२ 62 निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् । चकार कि वृथा शस्त्रविषवलीन् प्रजापतिः ॥३ 63 मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः । दूरात्मुखसहस्रेण सर्वप्राणहराः खलाः ॥४ 64 खलानां कण्टकानां च द्विविधैव प्रतिक्रिया। उपानमुखभङमो वा दूरतो वा विर्जनम् ॥५ 65 जीवन्नपि न तत्कतुं शक्नोति सज्जनस्तथा । दुर्जनो यन्मृतः कुर्यात् मनुष्येभ्योऽहितं यथा ॥६ 66 दुर्जनैरुच्यमानानि वांसि मधुराण्यपि ।। अकालकुसुमानीव संत्रासं जनयन्ति नः ॥७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy