SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 43 अपूर्वः सूक्तिसदल्लयाः कोऽपि काव्यफले रसः । चर्वणे सर्वसामान्ये स्वादुविदिरलो जनः ॥२ 44 अपूर्वः सूक्तिकोशोऽयं दृश्यते तव भारति । अव्यये व्ययमायाति व्यये याति च विस्तरम् ॥३ 45 धरित्र्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूदैः पाषाणखण्डेषु रत्नसंज्ञा नियोजिता ॥४ 46 ते धन्यास्ते महात्मानः तेषां लोके स्थिर यशः । यैर्निबद्धानि काव्यानि ये च काव्येषु कीर्तिताः ॥५ 47 बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । ___ अबोधोपहताश्चान्ये जोर्णमङ्गे सुभाषितम् ॥६ [भर्तृहरि, सु.सं. १] 48 किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घुर्णयति यच्छिरः ॥७ [नलचम्प .१.५] 49 काव्यं तदपि किं वाच्यमऽवाञ्चि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ॥८ अथ सुजनः । 50 महो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्भरेण नमन्ति च ॥१ 51 पतति व्यसने दैवादारुणे दारुणात्मनि । - संवर्मयति वज्रेण धैर्य हि महतां मनः । २ [अनर्घराघव, ५.१५] 52 मरणावधयः स्नेहाः कोपास्तत्क्षणभङ्गुराः । परित्यागाश्च निःसङ्गाः संभवन्ति महात्मनाम् ॥३ 43 ख० स्वादुशो। 45 ख० यैर्नबद्धानि । 47 'धनमदेनाऽ हंजु(यु?)' इति प प्रतौ टिप्पणी । 'दारिद्याक्रान्ता' इति अपि टिप्पणी .. प.प्रतौ । ख. प्रभवस्मयदूषिताः । 48 ख० तच्छिरः । 49 प. 'वाच्यमवाचि ॥ 50 ख. धैर्ये । 'संनाहेन' इति प.प्रतौ टिप्पणी ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy