SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 31 स्तोतुमेककविं न श्रीवाल्मीकिमृषयो विदुः । द्वितीयो यस्य नास्त्येव स कथं प्रथमः कविः ॥४ 32 स एव पदविन्यासस्ता एवाक्षरपङ्क्तयः ।। वक्त्रे वक्त्रे मनुष्याणां क्वापि क्वापि विदग्धता ॥५ सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः । विनापि कामिनीसङ्ग कवयः सुखमासते ॥६ 34 लहिताः कवयः स्थाने पदन्यासैर्मुरारिणा । पुराप्येष त्रिपद्यापि त्रिलोकीमप्यऽलङ्घयत् ॥७ जीयाद्यसुधाधुन्याः सुबन्धुप्रभवाचलः । यदङ्गश्लेषमासाथ भङ्गः कविभिराश्रितः ॥८ आहतप्रतिभाः केचित् केचिद हतनिष्प्रभाः । घटदीपनिभाः केचित् केचित् ग्रन्थानुसारिणः ॥९ 37 कवयः कालिदासाचाः कवयो वयमप्यमी । मेरौ च परमाणौ च पदार्थत्वव्यवस्थितिः ॥१० कवीनामगलदो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥११ हर्षचरित, १.११] निश्वासोऽपि न निर्याति बाणे हृदयवर्तिनि । किं पुनर्विकटाटोपपदबन्धा सरस्वती ॥१२ सन्ति श्वान इवासङ्ख्या जातिभाजो गृहे गृहे । उत्पाद का न बहवः कवयः सरभा इव ॥१३ [हर्षचरित, १.५] उच्छवासान्तेऽप्यऽखिन्नास्ते येषां वक्त्रे सरस्वती। कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥१४ [हर्षचरित,१.१०] अथ काव्यम् लक्ष्मीः सुवर्णरूपाणि पाणिपादेऽवलम्बते । भूषयत्यन्तरात्मानं वर्णरूपापि भारती ॥१ 32 ख. 'विदग्धताः' । प. 'सुबन्धुः प्रभवाचलः' । 38 'शक्त्या कर्णस्य लग्ना यथा' इति प. प्रतौ टिप्पणी 'चुल्ली' इति प. प्रतौ टिप्पणी । हर्षाख्यायिकादि' इति प. प्रतौ टिप्पणी । स्व. प्रतौ 'विलम्बते'। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy