SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः अथ हरिः। श्रियं दिशतु वः शश्वन्नाभ्यमम्भोरुहं हरेः । यस्मिन्नोङ्कारशङ्कारी विधिर्मधुकरायते ॥१ स पातु वो हरिर्येन कुर्वता बलिबन्धनम् । आत्मानं वामनीकृत्य सुरा नीताः समुन्नतिम् ॥२ जयन्ति नरसिंहस्य स्फुरन्नखशिखाः कराः । हरिणक्रोधकृष्टेन्दुकलाखण्डैरिवाङ्किताः ॥३ सोऽव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयो ॥४ लक्ष्मीकपोलकान्तसंक्रान्तपत्रलतोज्जवलाः । दोर्दुमाः पान्तु वः शौरैर्घनच्छायासदाफलाः ॥५ हरेराहरूपस्य जीयात्तत्तुण्डमण्डलम् । यदंष्ट्राचन्द्रखण्डे भूलाञ्छनछविरुर्वरा ॥६ 26 हृदयं कौस्तुभोद्भासि विष्णोः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥७ पान्तु वो जलदश्यामाः शाङ्गज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥८ अथ कविः । कवेः श्रीवामदेवस्य कामदेवस्य धन्विनः । वाणी च पंचबाणी च न लग्ना कस्य मानसे ॥१ कवीन्द्राश्च करीन्द्राश्च मदमन्थरगामिनः । पने वा स्थातुमिच्छन्ति भवने वाऽवनीभृतः ॥२ 30 कवेः श्रीकालीदासस्य तस्य कि स्तुमहे वयम् । यस्य काव्यत्रयीं श्रुत्वा मत्योऽपि विबुधो भवेत् ॥३ 20 प. लोकारझङ्कारी । ख. न्नोङ्कारझङ्कारो ॥ 21 प. प्रतौ 'नं वामनीकृ' इति श्लोकभागः नष्टः। 22 ख.प्रतौ २७तम लोकानन्तरं अयं लोकः वर्तते । 24 प. प्रतौ 'रैर्घनच्छायोसदाफलाः' इति लोकभागः नष्टः । 28 'शारङ्गस्य ज्या प्रत्यञ्चा तस्य घातेन' इति प. प्रती टिप्पणी । 29 'पदन्यासगमनं' इति प. प्रतौ टिप्णी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy