SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः १ स शिवः पातु वो नित्यं विशिखानलदीपितम् । आरात्रिकमिव भ्रान्तं यस्योपरि पुरत्रयम् ॥२ 10 पायावः शितिकण्ठस्य तमालश्यामलो गलः । संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥३ 11 पायावः शितिकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरी भुजलता यत्र विद्युल्लेखेव राजते ॥४ 12 स धूर्जटिजटाजूटो जायतां विजयाय वः । यत्रैकपलितभ्रान्ति' करोत्यद्यापि जाहवी ॥५ 13 आलम्बितजटाजालमुथदिन्दुकलाङ्कुरम् ॥ ___ चराचर समुत्पत्तिबीजं जयति धूर्जटिः ॥६ 14 लग्नः शिरसि शीतांशुमैग्ना वपुषि पार्वती । ___ स्मरास्वमिव यस्याजौ स स्मरारिपुनातु वः ॥७ 15 स शिवः वो शिवं दद्यायमूमि विकटा जटाः । गङ्गासलिलसेवालमालालीलां क्तिन्वते ॥८ 16 सगजास्येन्दुनन्दिस्तादगजास्येन्दुनन्दि वः । ___अनङ्गदाहि माहेशं साङ्गदाऽहिमुदे वपुः ॥९ 17 चाटुमन्त्राक्षरं कण्ठे करे कुचकमण्डलम् । ___ बिभ्रतः पार्वतीभर्तुम्हो व्रतमखण्डितम् ॥१० 18 स्तनौ तुम्जीफलद्वन्द्वं कृत्वेवोरसि पार्वती । अगाधं मानसं शंभोर्विविक्षुरिव लक्ष्यते ॥११ 19 स वः पातु शिवः शश्वत् यत् प्रपञ्चमहोदधौ । . उन्मज्जन्ति विपद्यन्ते ब्रह्माद्या बुबुदा इव ॥१२ 9 प.प्रतौ 'यस्योपरि' शब्दानन्तर पत्रं खण्डितम् । 10 प.प्रतौ 'पायाद्वः' लोकभागः पत्रस्य खण्डितत्वान्नष्टः इति । 13 प.प्रतौ पत्रस्य खण्डितत्वात् अस्य xलोकस्य पूर्वाधः 'दिन्दुकला' इतिपर्यन्तः नष्टः । 14 प.प्रतौ श्लोकस्य उत्तरार्धे 'यस्या' इतिशब्दानन्तर लोकभागः नष्टः । 15 प.प्रतो पत्रस्य खण्डितत्वात् आद्यः 'स' इति वर्णः नष्टः । 16 प. प्रतौ उत्तरार्धे 'अनङ्गदाहि माहे' इति लोकभागः नष्टः। 18 पं. स्तने । प. प्रतौ 'वोरसि पार्व' इति पर्यन्तः लोकभागः नष्टः । 'प्रवेशमिच्छु' इति टिप्पणी प. प्रतौ ॥ 19 ख, उत्पद्यन्ते 'विपद्यन्ते । 'अनवरत' इति प. प्रतो टिप्पणी ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy