Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 502
________________ ४८४ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६०) . तन्न । क्रमवद् व्यतिरेकिणा क्रमस्य प्रागेव निषिद्धत्वात्। तथाऽतिप्रसंगात् । पर्वेण कर्मविभागेनापरस्याप्रतिसन्धानात् एकांशाच्चाप्रतीतेः। तद्व्यतिरेकिहस्तसंज्ञादिषु प्रतीतिहेतुः समस्तरूपकर्मात्माशब्दवदेवाभ्युपगन्तव्यः स्यात् । यथास्वं करणप्रयोगाद् भिन्ना वर्णभागाः, कर्मभागा वा क्रमभाविनः। ते क्रमेण विकल्पविषयाद् यथासंकेतमेवार्थप्रतीति जनयन्तीति न्याय्यम् । (1) क्रमवन्तो भागा यस्येति विग्रहः। तन्नेत्यादिना प्रतिषेधति। तदेतदनन्तरोक्तं न सम्भवति। कस्मात् । क्रम172a वन्तो ये वास्तव्यतिरेकिणा क्रमस्य शब्दस्य। "न हि वयन्देवदत्तादि पदवा क्येषु दकारादिप्रतिभासं मुक्त्वा परं प्रतिभासमपलक्षयाम" इत्यादिना प्रागेव निषिद्धत्वात्। यदि चासमस्तभागेषु ध्वनिष्वर्थप्रतीतेरसम्भवादक्रमसत्वं शब्दरूपं कल्प्यते । तदातिप्रसङ्गश्चैवं कल्प्यमाने। तथा हि हस्तादीनां यथा संकेतगमनागमनादिसूचकानि यानि कर्माणि तेषां ये भागास्तेषां क्षणिकत्वात् पूर्वेण कर्मभागेनापर- . स्योत्तरस्य कर्मभागस्याप्रतिसन्धानादघटनात्। एकांशाच्चाप्रतीतेः। एकस्मा चाल्पीयसः कर्मभागाद् यथा संकेतस्य गमनागमनादिलक्षणस्यार्थस्याप्रतिपत्तेः । तद्वचतिरेकी। कर्मभागेभ्योन्यः। यथासंकेतं हस्तसंज्ञादयः। आदिशब्दादर्थप्रतीतौ शिरःकम्पादयो गह्यन्ते। तेष्वर्थप्रतीतिहेतुः समस्तरूपकर्मात्माभ्युपगन्तव्यः स्यात् । शब्दश्वदेव। ध्वनिव्यतिरिक्तशब्दकल्पनावत् । यत्पुनरुक्तम्म ण्ड ने न। “यदा विद्यवृद्धा हस्तसंज्ञादिविषयानुत्क्षेपणत्वादिशब्दनिर्देश्यान् सामान्यविशेषानभ्युपगच्छन्ति तदा कोयं प्रसङ्गः। एकः कर्मात्माभ्युपगन्तव्य"१ इति । ___ तदयुक्त। यतो यद्येकमुत्क्षेपणरूपङ्कर्म सिद्धम्भवेत्। तथा परापरमपियदि सिद्धं स्यात् तदा तेषु बहुषूत्क्षेपणेषु प्रत्येकमुत्क्षेपणत्वसामान्यम्वर्तेत । तदेव तु न सिद्धं पूर्वापरकर्मभागानामनन्वयात्। न च विशेषाभावे सामान्यसद्भावः । नापि कर्मभागेषु प्रत्येकमुत्क्षेपणादिरूपतया प्रतीतिः (1) किन्तर्हि (1) तद्भागरूपतया (1) तत्कथन्तेषु भागेषूत्क्षेपणत्वसामान्यमभ्युपगम्येत (1) अभ्युपगमे वा एकस्मादपि कर्मभागाद् गमनादिलक्षणस्यार्थस्य प्रतिपत्ति: स्यादर्थाभिधायकस्य सामान्यस्य भावादिति यत्किञ्चिदेतत्। यथा च न कर्मभागेषु व्यतिरिक्तं कर्मात्मा तथा ध्वनिभागेष्वपि न व्यतिरिक्तः शब्दात्मा। कथन्तमुर्थ 1Sphotasiddhi 33 (pp. 253-54)

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642