Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
(२) कुमारिलमत-निरासः
५६१ • यनादयमस्य श्रावकः स्यात् । तच्च न शक्यं । तस्य कथञ्चिदप्यपरिणामात्।
(इन्द्रियसंस्कारादयोऽप्युक्ताः । मां श्रावयति अहं श्रावयामीति प्रत्ययद्वयाद् 521b वक्तृश्रोत्रोर्भेद इति चेत् अनुपकार्योपकारकं भ्रान्तिमात्रम् । तस्मात् तद्भावेऽतिप्रसंगः2 स्यात्। अन्यत्रापि भ्रान्त्या प्रत्ययदर्शनात् । सर्वथा उपकाराभावे च तथा प्रत्ययो न युक्तः। सर्वेषां परस्परं एवं प्रसंगात् । भ्रान्तिरपि कुतश्चिदुप
गेनोपाधिरिष्यते वक्ता। ततो वक्तुः सकाशाच्छब्दश्रुतिः शब्दोपलब्धिः श्रोतुर्भवत्यतो सौ वक्ता उपाधिरिति चेत् । ___ ननु तदेवेदं पर्यनुयुज्यते कथन्ततो वक्तुः सकाशाच्छब्दश्रुतिः श्रोतुर्भवति। कथं च ततो न भवेत्। सम्बन्धाभावात्। उपकार्योपकारकभावाभावात्। तदभावमेव दर्शयन्नाह। विषयोपनयाद् विषयसन्निधापनादयम्वक्तास्य श्रोतुः श्रावकः स्यात् । श्रावयिता भवेत् । तच्च प्रत्युपस्थापनं न शक्यन्तस्य शब्दस्य । नित्यस्य कथंचिदप्यपरिणामात् । अन्यथात्वाभावात् ।
श्रोतुरिन्द्रियसंस्कारकुर्वन्नावरणविगमनं वा शब्दस्य सम्पादयन् ब्रजेदुपयोगम्वक्तेति चेत् (1)
तन्न। यस्मादिन्द्रियसंस्कारादयोप्युक्ताः प्रतिक्षिप्ताः। 'इन्द्रियस्य स्यात् संकारः शृणुयान्निखिलन्तदि"२त्यादिना। मामयम्वक्ता श्रावयतीति श्रोतुः प्रत्ययो बुद्धिरहमेनं श्रोतारं श्राव यामीति वक्तु: संप्रत्ययो भवति (1) अतः प्रत्ययद्वयाद् यथायोगम्वक्तृश्रोत्रोआंद इति चेत् । ____ अनुपकार्येत्यादिना प्रतिषेधति। मां श्रावयत्यहं श्रावयामीति भ्रान्तिमात्रमेतत् । किम्भूतमनुपकार्योपकारकं । उपकार्यः श्रोता। उपकारको वक्ता न भवति यस्मिन् भ्रान्तिमात्रे तत्तथोक्तं । नित्ये च शब्दे बुद्धिजन्मनि पुंसः सर्वथा व्या:पाराभावादनुपकार्योपकारकभावः प्रतिपादितः। तस्मादेवंभूताद् भ्रान्तिमात्रात्त-. द्भावे। वक्तृश्रोतृभेदभावेऽतिप्रसङ्गः। सर्वस्याश्रावयितुरशृण्वतश्चैवं स्यात् (1) किङ्कारणं । अन्यत्राप्युन्मत्तादौ विनैव शब्द] ३ श्रवणेन भ्रान्त्याऽहं शृणोमीत्यादिप्रत्ययदर्शनात्। तस्मात् सर्वथोपकाराभावे च तथाप्रत्यय इत्यहं श्राव'यामीत्यादि 198a प्रत्ययो न युक्तः। किं कारणं (1) सर्वेषां परस्परमनुपकार्योपकारकाणामेवमहमतः शृणोमीत्यादि प्रसङ्गात् । यथा तर्जुन्मत्तेषु भ्रान्त्या प्रत्ययोत्पत्तिस्तथा नित्येष्वपि भवत्वि[ति चेदाह । भ्रान्तिरित्यादि। भ्रान्ति] ३ रपि या पुरुषस्योन्मत्तस्य भवति सापि स्वस्थावस्थायां कुतश्चित् पुरुषादुपकारे सति तथा प्रत्ययोत्पत्तौ तदाहित- .
प्र० वा० २२५८
3 In the margin.
1 Restored.
७१

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642